________________
मलय ॥१७०
तद्वारि नेत्रयोस्तस्या यावत्तेन प्रचिक्षिपे । सा तावलोचने किंचिदुन्मीलितवती शनैः ॥ ५० ॥ ततः | क्षिप्तं मुखे नीरं श्वासोऽपि स्फुरितस्ततः । युग्ममुद्घटितं चाक्ष्णोस्तयोः पुण्यमिव द्वयोः ॥ ५१ ॥
त मुल नारासापर सिक्ता तेनाथ सर्वांगं मध्ये तद्वारि पायिता । समुत्तस्थी कुमारस्यानंदपूरेण सा समं॥ ५२ ॥ कुतस्त्वं
प्रिय तस्माच्चांधकूपान्निःसृतः कथं । कथं चके त्वया सजदेहाहं चेत्युवाच सा ॥ ५३ ॥ कुमार ऊचे * भद्रेऽहं रज्जुच्छेदेन पातितः । यावत्कूपे स्थितस्तावत्सर्पस्तत्रैव सोऽभवत् ॥ ५४ ॥ कूपभित्तीस्ततः | * सर्वाः समंतात्पश्यता मया । दृष्टा द्वारे शिला तत्र स सो यत्र संस्थितः ॥ ५५ ॥ गत्वा छन्नं al ततो द्वारशिला सा मुष्टिना हता। द्वारमुजघटे तत्र सर्पश्चागात् पराङ्मुखः ॥ ५६ ॥ यावद् द्वारेण |
तेनाहं प्राविक्षं साहसान्वितः । तावदने फणी सोऽपि दीपिकाधरवद्ययौ ॥ ५७ ॥ | ननमेषा सुरंगात्राऽकारि चौरेण केनचित । ततः पुरः क्वचिद द्वारमस्या गुप्तं भविष्यति ॥५॥ पुमानिव ज्वलदीपकरो यद्यात्यहिः पुरः । तन्ममाद्यापि जागर्ति कोऽपि पुण्यलवो ननु ॥ ५९ ॥ | चिंतयन्नित्यहं यावत्कियती भूमिकां गतः । तावत्सर्पः स नष्टो द्राक् ध्वांतं चोल्लसितं भृशं ॥ ६ ॥
T॥१७॥