________________
मलय
॥१६८॥ ॥
***********++++
कारा विशेषो नाभवत्पुनः । प्रत्युत क्ष्वेडकल्लोला बभूवुरधिकाधिकाः ॥ २८ ॥ इंद्रियाणां ततश्चेष्टा सर्वेषां नाशमागमत् । एक एवास्फुरच्छ्वासस्तस्या वपुषि केवलं ॥ २९ ॥ अनिच्छंतीव तां दृष्टुं मन्येऽहं रजनी गता । सजितांगीमिवोद्ध व्युष्टेन स्फुरितं ततः ॥ ३० ॥ निःशेपनिष्टितोपायस्ततो राजातिदुःखितः । पटहं वादयामासेत्युद्घोषणपुरस्सरं ॥ ३१ ॥ सज्जीकरोति यो बालामिमां गरलमूर्छितां । रणरंग गजं कन्यां देशं चाप्नोति सोऽधुना ॥ ३२ ॥ न निषिद्धः स केनापि पटहः कापि पत्तने । निराशः स ततो जातः कंदपों नरनायकः ॥ ३३ ॥ अथैकेन कुतोऽप्येत्य नरेणाभिनवेन सः । पटहो विधृतः सोऽपि विधृतो नृपपूरुषैः || ३४ ॥ अनेन पटहो देव ! धृतस्तैरिति वादिभिः । नीत्वा भूमीपतेः पार्श्वे स पुमान् दर्शितस्ततः ॥ ३५ ॥ इष्टो मलयसुंदर्याः स एवायमहो पुमान् । अंधकूपात्ततः पापः कथंकारं विनिर्ययौ ॥ ३६ ॥ केन दैवहतेनैष परोक्षे मे बहिष्कृतः । को निर्गतुं यतस्तस्मात्स्वयं शक्नोति कूपतः ॥ ३७ ॥ ध्यायन्निति नृपो मंक्षु विधायाकार संवरं । ऊचे साधो ! विधेहि त्वं सज्जां मलयसुंदरीं ॥ येन तं रणरंगेभं कन्यां देशं च ते ददे ।
३८ ॥
++*****+*+*+
चरित्रं
॥ १६८॥