________________
मलय
॥१६४॥
•2018XX748910
णापि पृष्टः ॥ ८३ ॥ ततः सोऽस्फुटचैतन्यो नरो मूर्छाभरार्दितः । मंदं मंदं जगादेति शरणं मे महावलः ॥ ८४ ॥ विस्मितोऽथ कुमारः स तस्यांगं समवाहयत् । मूर्छाभंगे ततः सोऽपि चैतन्यं प्राप पूरुषः ॥ ८५ ॥ पुमान्मां किं स्मरत्येष किं वा मन्नामकं परं । कमपीष्टमिति ध्यात्वा ततः प्रोचे महाबलः ॥ ८६ ॥ हे साहसिक ! कोऽसि त्वं किमित्थं पतितस्त्विह । उपलक्ष्य स्वरेणाथ सम्यक् तेनेति भाषितं ॥८७॥ कोऽसि त्वं कथमायातः कूपे किं पतितोऽनु मां । पृष्टव्योऽसीति पश्चाद्भोः प्रागेकं कुरु । मे वचः ॥८८॥ स्वनिष्ठयूतेन मे भालतलं घर्ष यथा तव । पुण्यप्राप्यस्य वृत्तांतं स्वकीयं कथयाम्यहं । ॥ ८९ ॥ स्वनिष्ठयूतेन तेनापि तस्य भालेऽथ घर्षिते । पुमान् सोऽथ प्रिया तस्य जज्ञे मलय सुंदरी ॥९०॥ इतश्च कूपभित्तेस्तु सर्पेणास्यं कृतं बहिः । उद्योतितोंधकूपः स तच्छिरोमणिना तदा ॥ ९१ ॥ दुष्प्रापात्मप्रियालोकोत्कंठितोऽथ महाबलः । अकस्मात्तां पुरोऽपश्यत् प्रियां मलयसुंदरीं ॥ ९२ ॥ नाहो महावृष्टिर्यदेषा दृश्यसे प्रिये !। भ्रामं भ्राममियत्कालं नैव लव्धा कुतोऽपि या ॥ ९३ अहो विधेर्नियोगो यदित्थमत्रांधकूपके । बभूवाचिंतितोऽकस्मात्तवापि मम संगमः ॥ ९४ ॥
॥
ABBA * B 19 fog Book 10 fol
चरित्रं
॥ १६४॥