________________
मलय
चरित्रं
॥१६५॥
जल्पन्नित्यादि मुंश्चाश्रूण्यश्रांतं महाबलः । उवाचामूलमाख्याहि प्रिये वृत्तांतमात्मनः ॥९५॥ सापि | सर्व स्ववृत्तांतं मुंचत्यश्रुपरंपरां । दुःखसंपूर्णहृदया कंपमानतनुर्जगौ ॥ ९६ ॥ कुमारः माह बाष्पौघनिर्मितांधांधुजीवनः । त्वमप्येवंविधाहा हा पतिता व्यसनार्णवे ॥ ९७॥ वपुर्यष्ट्यानया भोगयोग्यया सुकुमारया । दुःखानि तानि सोढानि त्वया तन्वि कथं कथं ॥ ९८ ॥ शून्यारण्ये तदानेन पार्धात्ते व्यवहारिणा । जगृहे बालकः सोऽस्ति कुत्रेदानीं मम प्रिये ।। ९९ ॥ सा स्माहात्रैव नगरे क्वापि | मुक्तोऽस्ति तेन सः। ज्ञास्यते तु कथं पुत्रो मिलिष्यत्यावयोः कथं ॥२०॥ ___कुमाऽरोत चेत्कृपा-दस्मादावां कथंचन । निर्यास्यावस्तदा चिंता कर्त्तव्यैषाखिला खलु ॥१॥ | विरहे मे त्वया नाथ् वासरा गमिताः कथं । इति पृष्टस्तया सर्व स वृत्तांतं निजं जगौ ॥२॥अन्यो ऽन्यालापपीयूषपानसंप्रीणितश्रुती । चिरेण संगतो यावत्तत्र तो तस्थतुः सुखं ॥३॥ विभाता रजनी तावदागाच्चानुपदं नृपः। दृष्ट्वा द्वावपि कूपे तो जगादैवं च विस्मितः॥४॥ युक्ता प्रियेण केनापि नूनं मलयसुंदरी। एषा नैसर्गिकांगश्रीः स्नेहालापं वितन्वति ॥५॥अनुरूपमहो रूपं सौभाग्यं वोन
***89kdi-PRERAKHARE*12
॥१६५॥