________________
मलय
॥१६३॥
80*16
1920X12804
| मारेण विविधेन तत् ॥ ७२ ॥ युक्तं ततोऽघुना म पतित्वा मेऽत्र कूपके । स्मृत्वाभीष्टं ततो देव चकाराराधनां च सा ॥ ७३ ॥ अरे दैव ! त्वया वैरिन् ! वियोज्येत्थं स्वबंधुतः । निर्भाग्याहं कृता तादृग् दुःखानां भाजनं भृशं ॥ ७४ ॥ महाबलेन निस्सीम तादृक्स्नेहेन तेन मे । समं प्रियतमेनात्र वियोगो विदधे त्वया ॥ ७५ ॥ तमेव मेलयेस्तन्मे प्रद्यापि भवांतरे । यतो यद्विदधासि त्वमवश्यं | भवतीह तत् ॥ ७६ ॥ इत्युपालभमाना सा दैवं पुंरूपधारिणी । कूपे झंपाप्रदानाय सज्जतां कर्तुमु द्यता ॥ ७७ ॥ चतुर्भिः कलापकं ॥ इतश्च स्वप्रियां पश्यन् स सर्वत्र महाबलः । भ्रामं भ्रामं सप्तागत्य तस्यैवा निशागमे ॥ ४८ ॥ तस्यामेव प्रसुतोऽभूद्देश्यकुड्यां श्रमातुरः । प्रियावियोगसंतप्तः प्रमीलां प्राप नो पुनः ॥ ७९ ॥ युग्मं ॥ कुत्र कुत्र मयेदानीं दृष्टव्या सेति चिंतयन् । उक्तं मलयसुंदर्याः सर्वे शुश्राव तत्तदा ॥ ८० ॥ अहो एतदपूर्वं किं प्रियाया इव भाषितं । श्रूयते वनितावाक्यं प्राणत्यागस्य सूचकं ॥ ८१ ॥ ध्यात्वेति मामास्म मृथा विलंबस्व क्षणं शुभे । इति जल्पन् दधावैष यावत् शीघ्रं महाबलः ॥ ८२ ॥ तेनेति भणता तावत् शरणं मे महाबलः । दत्तांधकूपके झंपा कुमारे..
K
चरित्रं
॥ १६३ ॥