________________
मलय--
चरित्रं
भूनाथो हुं ज्ञातामिति विस्मितः ॥ ६१ ॥ युग्मं । मद्रांछितमनिच्छंती भोस्त्वं मलयसुंदरी । प्रति-
| पन्नासि पुंरूपं प्रकारेणात्र केनचित् ॥ ६२॥ रे नीत्वा बहिरावासे तदेनं धत्त रक्षकाः । स्थितोऽत्रां॥१६॥ " तःपुरेऽनर्थ सकलेऽपि करिष्यति ॥ ६३ ॥ इत्युक्ते तेन नीत्वा स पुमान् मलयसुंदरः । धृतस्तैस्तत्र
| हृष्टोऽस्थाद्धर्मध्यानोद्यतः सदा ॥ ६४ ॥ सकंदर्पः स कंदर्पः क्षमापोऽप्यागत्य तं सदा । पप्रच्छोपच * रन् भूरि परैश्चैवमपृच्छयत् ॥ ६५॥ नृरूपं किं त्वया चक्रे प्रयोगेणेह केन च । स्वाभाविकं कथं
रूपं भविष्यति पुनस्तव ।। ६६ ॥ किंतु नोवाच किंचित्स जितकासी ततो नृपः । रोषेणाताडयनित्यं नानाताडनकर्मभिः ॥ ६७ ॥ ताड्यमानो भृशं सोऽथ पुमान्मलयसुंदरः । अध्यायद्यद्यतः * स्थानात्कथंचिन्निःसराम्यहं ॥६८॥ ततो मुच्ये महादुःखादतो नरकसोदरात् । कदाचिदन्यदा रात्री
प्रसुप्तो यामिकस्ततः ॥ ६९ ॥ ततो निःसृत्य सोऽज्ञात आगतो नगराबहिः । म कामः क्वचिद्देश्यः |
कुड्यामेकत्र तस्थिवान् ॥ ७० ॥ नातिदूरेऽस्ति तस्यास्त्वंधकूपोऽल्पबलाभिधः । स परिभ्रमता तेन । पुंसा दृष्ट इतस्ततः ॥ ७१ ॥ स्थित्वा तत्र वटे दध्यौ राजा मां लप्स्यते यदि । मारयिष्यति रोपांधी
॥१२॥