________________
मलय
चरित्र
॥१६१॥
पातालादिह निर्गतः। अवतीणों दिवः किंवा किंवा विद्याधरात्मजः ॥४९॥ इति चिंताकृतां तालामभवन् वातविक्रयाः। राकाचंद्रोदये वाद्वेरिव वेलाजलोर्मयः ॥ ५० ॥ तासां कटाक्षविक्षेपास्तदंगे पतिताः समं । प्रसरन्मंजरीगंधे रसाले भ्रमरा इव ॥५२॥ नरं तं तादृशं दृष्ट्वाऽवरोधं च विसंस्थुलं । गत्वा प्राहरिकाः सर्वे विस्मिता भूपतेर्जगुः ।। ५३ ॥ आगतोऽथ नृपोऽपश्यन्नरं तं विस्मयावहं । धीरं सौम्यं सुखासीनं प्रत्यक्षमिव मन्मथं ॥ ५४॥ कोऽयं कथं प्रविष्टोऽत्र बहुधेति विकल्पयन् । यावत्तां | तत्र सोऽपश्यत्तावन्नैक्षिष्ट सुंदरीं ॥ ५५ ॥ अत्रानीयाध मुक्ता या क सा मलयसुंदरी । उत्पाव्य | | भृकुटिं तेन पृष्टाः प्राहरिका इति ॥ ५६ ॥ इदानीमेव सा देव समासीनात्र खल्वभूत् । निर्गता न वहिः क्वापि येन द्वारस्थिता वयं ॥ ५७ ॥ तैरित्युक्ते नृपोऽवोचचिंतयित्वा क्षणं हृदि । सैव स्त्री पुरुषो जातः कथंचन किलाधुना ॥ ५८ ॥ ततः पृष्टः स ना कीहक् त्वमात्मानं निवेदय । स स्माह यादृशोऽहं किं न मां पश्यथ तादृशं५ ५९ ॥ विद्याधरादिसिद्धादिलक्षणेभ्यो विलक्षणं । | सामान्यनरचिह्नालंकृतं धीरस्थिरांतरं ॥ ६० ॥ वेषं मलयसुंदर्या दधतं तं तथैव च । पश्यन्नुवाच