________________
मलय
॥१६०॥
NXNX1200
13004
३८ ॥
३९ ॥
४० ॥
४१ ॥
कुतोऽत्र संभवश्रूतफलानां मासि फाल्गुने । हुं ज्ञातं छिन्नटंकोऽस्ति नगरंनिकषा गिरिः ॥ तस्यातिविषमोत्तुंगशृंगसंस्थात्सदाफलात् । रसालात्फलमादाय समुडीनः शुकः किल ॥ भारेणात्रमिदं कीरमुखात्त्रस्तं भविष्यति । स्वयं स्वादाम्यदस्तत्किं ददे कस्मै प्रियाय वा ॥ ध्यात्वेत्यूचे स भोस्तस्यै समप्येदं कलं फलं । तामानीयावरोधेऽय मुंचताहं भजे बलात् ॥ इत्युक्त्वा प्रेषितास्तेन गत्वा तत्र जनास्तु ते । तदाम्रमर्पयामासुः सापि जग्राह विस्मिता ॥ ४२ ॥ प्राप्तं फलमकालेऽपीदं पुण्यैश्चिंतयंत्यदः । तैरानीयावरोधे सा क्षिप्ता मलयसुंदरी || ४३ ॥ ततस्तैः पुनरागत्य राज्ञे सर्वं न्यवेद्यत । कृच्छ्रेणापालयद्राजाप्यागच्छंतीं विभावरीं ॥ ४४ ॥ अथ सा चिंतयामास सती मलयसुंदरी । कंदपोंऽयं सकंदपों दर्पान्मां व्यथयिष्यति ॥ ४५ ॥ केशेभ्यो गुटिकां कृष्ट्वा तां घृष्ट्वाम्ररसेन च । ततश्चकार सा भालतलके तिलकं निजे ॥ ४६ ॥ ततः सा पुरुषो भृत्वा दिव्यरूप उपाविशत् । विस्फुरद्वरलावण्यो विश्वस्तो मत्तवारणे ॥ ४७ ॥ दृष्ट्वात्यद्भुतरूपं तमाकस्मिकमित्रागतं । विस्फारिताक्षिपत्रास्ता व्यस्मयंत नृपप्रियाः ॥ ४८ ॥ किं कोप्येष पुमान् दिव्यः
809011000*6*194
चरित्रं
॥१६०॥