________________
मलय
॥१५९॥
99881098141-20081840964888981836068
***09++++
सतीनां हि खंड्यमानं सुदुष्करं । केसरिणः सटा यद्वद् दृग्विषाहेर्मणिर्यथा ॥ २७ ॥ यत्र प्रकुपिताः । सत्यस्तं कुर्युः क्षारपुंजकं । बुध्यस्व त्वं ततो राजन्। स्वकुलं मा कलंकय ॥ २८ ॥ विशालस्तव वंशोऽयं कुलं च विमलं नृप । गुणाधारस्त्वमेकोऽसि कुकार्ये युज्यते कथं ॥ २९ ॥ स तया बोधितोऽप्येवं महासत्या नरेश्वरः । दुष्टाभिप्रायतस्तस्मात् कामांधो न ह्ययासरत् ॥ ३० ॥ खंडयिष्याम्यहं शीलमस्या नार्या बलादपि । क्षारपुंजं करोत्वेषा मां चित्ते चिंतयन्निति ॥ ३१ ॥ ततो निर्गत्य कंदपों राजकार्याणि निर्ममे । ध्रुवं शल्यायमानायां तस्यामेव स्त्रियां हृदि ॥ ३२ ॥ युग्मं ॥ धर्मध्यानपरा सापि नित्यं मलयसुंदरी । बद्धकक्षा मृतौ तस्थौ विच्छायमुखपंकजा ॥ ३३ ॥ स्वयं वभाण राजा स भाणयामास चापरैः । भोगार्थं तां सतीं सा तु विभेदे नैव किंचन ॥ ३४ ॥ यद्यद्वस्तु समायातमपूर्वं तत्तदर्पितं । चित्तावर्जन कार्येण तस्यैतेन महीभुजा ॥ ३५ ॥
अथान्यदा शुकस्यास्याद्गच्छता पुष्कराध्वना । एकमाम्रफलं पक्त्रं स्त्रस्तं भारेण सुंदरं ॥३६॥ उत्संगे राज्ञ आकाशे समासीनस्य पश्यतः । पतितं पाणिनादाय तेनैवं चिंतितं पुनः ॥ ३७ ॥
चरित्रं
॥१५९॥