________________
मलय
॥१५२॥
201501041408409984
| दत्वा तालं च वेश्मनि । स्वप्रियाप्रियसुंदर्या अर्पयामास स क्रुधा ॥ ५० ॥ ऊचे चैष प्रिये ! बाल तेजस्वी रूपवान्मया । अशोकवनिकामध्ये लेभे लक्षणसंयुतः ॥ ५१ ॥
भविष्यत्युज्झितो नार्या स्वैरिण्यात्र कदाचन । ततोऽयं भवतात्पुत्र आवयोरनपत्ययोः ॥ ५२ ॥ तस्यात्मनामलेशेन बल इत्यभिधां व्यधात् । धात्रीं च स्थापयामास स्तन्यपानाय सार्थः ॥ ५३ ॥ शिक्षां दत्वाथ भार्याया आपृच्छ्य खजनानपि । गेहाच्छन्नं गृहीत्वा तां बलान्मलय सुंदरीं ॥ ५४ ॥ पूर्व सज्जीकृतं पोतं सार्थवाहोऽधिरूढवान् । उत्क्षिप्ता नांगराः सर्वे शीघ्रं कर्म करेस्ततः ॥ ५५ ॥ ॥ युग्मं ॥ अज्ञया सार्थवाहस्य ततः पोतः स पूरितः । तटं बर्बरकूलाख्यं प्रत्यचालीज्जलाध्वना ॥५६॥ यानपात्रे पयोराशौ पूर्णवेगेन गच्छति । दुःखिता चिंतयामास चित्ते मलयसुंदरी ॥ ५७ ॥ विक्रेध्यते विदेशे मां किंवा क्षेप्स्यति सागरे । मारयिष्यति किं चैष सार्थवाहो दुराशयः ॥ ५८ ॥ यद्भाव्यं तन्ममात्रास्तु स परं पुत्रकः कथं । भविष्यतीति दुःखेनाभवज्जीवन्मृतेव सा ॥ ५९ ॥
तयाऽश्रूणि विमुचंत्या स पृष्टो रुद्रकंठया । हो सत्पुरुषाख्याहि मत्पुत्रो विहितः कथं ॥ ६० ॥
480489382884
चरित्र
॥१५२॥