________________
चरित्रं
मलय
॥१५॥
- नवस्त्रालंकाराद्यं सर्वदा ददौ । बभाषे न वचः किंचित्तस्याः सोऽप्रीतिकारकं ॥ ३९ ॥ किंचित्स्वस्था
ततस्तेन पृष्टा सा तव नाम किं । तया मंद वभाषेऽहं नाम्ना मलयसुंदरी ॥ ४० ॥ बलसारस्ततो । दध्यो स्वं सम्यग् मा वदत्वियं । नाम्नैव ज्ञायते कापि विशिष्टकुलसंभवा ॥ ४१ ॥
___ ततः स्थानादयं प्राप निविलंबप्रयाणकैः । सागरतिलकं नाम वेलाकूले निजं पुरं ॥ ४२ ॥ गुप्त* गेहे ततः क्वापि मुक्ता सा ससुता तथा । न जानाति यथा कोऽपि तामेका दासिकां विना ।। ४३ ॥
अथ तेनान्यदाभाणि सैवं मलयसुंदरी । प्रतिपद्यख मामय वल्लभत्वेन सुंदरि!॥ ४४ ॥ ममास्याः
सर्वलक्ष्म्यास्त्वं खामिनी भव मानिनि । आजन्माहं तवाज्ञायाः कारकः सपरिच्छदः ॥ ४५ ॥ ममा* पुत्रस्य पुत्रोऽयं भवतात्तव पुत्रकः । प्रत्यहं प्रार्थयामास मदनांधः स मामिति ॥ ४६॥ ऊचे मल
यसुंदर्या महापापमिदं तव । न युज्यते कुलीनस्य विरुद्वं जन्मनोईयोः ॥ ४७ ॥ अपि नश्यतु - सर्वस्वं भवत्वंगं च खंडशः । कलंकयामि शीलं स्वं न तथापोंदुनिर्मलं ॥४८॥ बहुप्रकारमित्यादि
वारितः स तथा तया । यथा विधाय तूष्यीकां बादं रोषारुणोऽभवत् ॥ ४९ ॥ तस्यास्तं पुत्रमादाय
॥१५ ।