________________
मलया। बोध कुमारः स भोजितो भृमुजा ततः । खयं मुक्तं स्थितं चापि चिंतामग्नेन चेतसा ॥ ५७ ॥ ॥१४६॥
कालेन कियता तेऽथ संप्राप्ताः प्रेषिता नराः । बालायाः वापि तस्यास्तु शुद्धिलब्धा न केनचित् |
॥ ५८ ॥ कुमारोऽथ निराशः सन् दुःखमनो व्यचिंतयत् । अपुण्यानि ममाहो यद्वियोगः प्रियया Halसह ॥ ५९ ।। हा हा शून्ये महारण्ये कराभ्यां हृदयं स्वयं । आहत्य हास्फोटं भविष्यसि मृता
प्रिये ॥६० ॥ अथवेतस्ततो यांती केनाप्याता भविष्यति । अथवा क्रूरजीवस्त्वं भक्षिताशु भवि-1 व्यसि ॥ ६१ ॥ त्वं मेऽपि दयिता भूत्वा पतितासीहगापदि । यूधभ्रष्टा कुरंगीव भ्रमस्येकाकिनो वने ॥ ६२ ॥ उत्सुकापि प्रिये स्वच्छे सहागमनहेतवे । मया दैवहतेन त्वं पश्चान्मुक्ता कथं तदा ॥३॥ ___अनुभूय सुखं तागिदानी दुःखसागरे । निमग्ना दयिते गाढं भविष्यसि कथं कथं ॥ ६४ ॥ इत्यादि बहुधा चित्ते स्मारं स्मारं नरेंद्रसूः । हृदीव शल्यितो भल्ल्या रतिं नाप कथंचन ।। ६५ ॥ ततो नैमित्तिकाख्यातं स्मरन् खड्गयुतो निशि । कुमारो निरगाच्छन्नः प्रियां सर्वत्र वीक्षितुं ॥६६॥ | प्रभाते पितरो पुत्रमपश्यंती च कुत्रचित् । ऊचतुर्न क्षमः स्थातुं वत्सोऽगाद्वीक्षितुं प्रियां ॥ ६७ ॥
॥१४॥