________________
मलय
॥१४५॥
900*4*76249
गर्लनी हत्या
बूत नराः सम्यक् तदारण्ये ममाज्ञया । नीत्वा मलयसुंदर्या वत्सायाः किमु किं कृतं ॥ ४६ ॥ ऊचुस्ते देव सा यावन्नीत्वा तत्र व्यमुच्यत । भवद्दीनमुखी भीत्या कंपमानारुभृशं ॥ ४७ ॥ दध्येऽस्माभिस्ततश्चिह्नैरेभिरेषा न राक्षसी । भ्रांतः केनापि दुष्टेन नूनं व्यामोहितो नृपः ॥ २८ ॥ स्त्रीहत्या भ्रूणहत्या च महापापमिदं ततः । न हंतव्यात्र मुक्तेयं स्वयं शून्ये मरिष्यति ॥ ४९ ॥ ध्यात्वेति रुदतीं मुक्त्वा जीवंतीमेव तत्र तां । अत्रागत्य तवास्माभिर्भीत्या मिथ्या प्रजल्पितं ॥ ५० ॥ नृपोऽवोचदहो या मृदयामीषां न सापि मे । बुद्धिरेषामभूद्या च हताशस्य न सापि मे ॥ ५१ ॥ इत्यात्मानं नृपो निंदन् प्रशंसंश्च भृशं नरान् । प्रसादैः प्रीणयामास तांस्तं च गणकोत्तमं ॥ ५२ ॥ कुमारः स्माह भो ज्ञानिन् । मिलितं यत्त्वयोदितं । जीवंती सा यतोऽमीभिर्मुक्ता वाला हता न हि ॥ ५३ ॥ ततो विलोक्यते तात । तत्रान्यत्रापि साधुना । चंद्रावत्यां नगर्यौ च प्रेष्यते कोऽपि पुरुषः ॥ ५४ ॥ श्रीवीरधवलस्यापि वृत्तांतोऽयं निवेद्यते । अस्माकं तत्र सा पुण्यैर्गतास्याच्चेत्कथंचन ॥५५॥ अथायाता न तत्सोऽपि गवेषयति भूपतिः । कुमारोचं ततः सर्वं राज्ञा तत्समनुष्ठितं ॥ ५६ ॥ प्रति
D%DB%8
चरित्रं
॥९४५॥