________________
चारच
मलय-- ॥१४७॥
आपदं लप्स्यते क्वापिं नानादुःखं सहिष्यते । पाथवत्पादचारी स भूशायी च भविष्यति ॥ ६८ ॥ लब्ध्वा तां सुवधू सुतं पुनरिहायातं कदा लोचने ईक्ष्याः पितराविति प्रतिदिनं चिंतातुरौ तस्थतुः ॥ एकाकी नृपनंदनस्तु वनितां पश्यन्प्रणश्यत्तृषा-क्षुन्निद्रासुखसंतामः क्षितितलं बभ्राम हृल्लेखवान् ॥६९॥
॥ इत्यागमिकनोजयतिलकसूरिविरचिते ज्ञानरत्नोपाख्याने मलयसुरोचरित्रे
श्वसुरकुलसमागमप्रकाशनो नाम तृतीयःप्रस्तावः समाप्तः॥श्रीरस्तु ॥
॥अथ चतुर्थः प्रस्तावः प्रारभ्यते ॥ इतश्च प्रोज्झिता रात्री बाला मलयसुंदरी । अरण्ये क्रूरसखानां शब्दान् श्रुत्वा व्यचिंतयत् | * ॥१॥ शून्येऽरण्ये तमखिन्यामुग्झित्वा मां गताः खलु । निर्दया रथमादाय हा हा ते राजपूषाः |
॥२॥ अपराधमनाख्याय कृतो दंडी यदीदृशः । राज्ञा मे तन्सहादुःखमेकमेव दुनोति मां ॥३॥ अहो चित्रमिदं केनाप्येष यद्विप्रतारितः । श्वसुरः सूरपालो मे बुद्धिमानपि सर्वथा ॥ ४॥हा सूर
॥१४७॥