SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ मलय- प्रगुणितं च तां । चलिता वायुवेगेन सुभटा अटीप्रति ॥ २॥ . . ततः साचिंतयच्चित्तेऽधिक्षिपंती नरास्वमी । निहंतुमथवा त्यक्तुं नयंति क्वापि मामतः ॥३॥ ॥१४॥ अपराधं परं कंचिन्न जानाम्यहमात्मनः । अथ पूर्वार्जितं कर्म ममाशुभमुपस्थितं ॥ ४ ॥ ततो रे * जीव! यदुःखं तवागच्छति सांप्रतं । तत्सर्व सह देहेनामुना भूत्वातिकर्कशा ॥ ५॥ चिंतयंतीति * सा चित्ते विपाकं निजकर्मणः । महाबलकुमारणाख्यातं श्लोकमथास्मरत् ॥ ६ ॥ सा ते वाट छन्ना मुक्ता मलयसुंदरी । दुःखं न लभते कोऽत्र पूर्वकर्मोदयेन यत् ॥ ७ ॥ आगताः कृतकर्त्तव्या इत्याख्याते प्रगेऽथ तैः। सविशेषां च पूरक्षां राजाशिथिलयत्ततः ॥ ८॥ दापयामास सर्वत्र ताल. कानि वधूगृहे । निर्नासां प्रेक्षयामास तां नारों किंतु नाप सः ॥ ९॥ अथ निर्जित्य तं भिल्लं कतिभिर्दिवसैः पुनः। महाबलः समायातो दयितोत्कंठितो भृशं ॥१०॥ नमस्कृत्य पितुः पादौ . गदित्वोदंतमात्मनः । यावन्मलयसुंदर्याः प्रस्थितः स गृहप्रति ॥ ११ ॥ तावद् धृत्वा करे तस्मै सूर पालेन भूभुजा । सर्वं मलयसुंदर्याः कथितं तद्विज॑भितं ॥ १२ ॥ कुमारो निःश्वसन् दीर्घं घर्षन्नात्म ॥१४१॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy