________________
मलय॥१४२॥
09-11-2017-18-10098461008-109818360
करौ ततः । सगद्गवं ससीत्कारं वक्तुमेवं प्रचक्रमे ॥ १३ ॥
हा हा भ्रांतोऽसि जातस्त्वं किं विचारबहिर्मुखः । तात! घातुविपर्यासोऽधुना तव बभूव किं ॥ १४ ॥ त्वया दीर्घधिया देव! यावन्मम समागमं । विलंबितं न किं कार्यमिदं दोषेण गुर्वपि ॥ १५ ॥ निर्नासा सा वशा भृरिकूटानां मंदिरं प्रभो । ज्ञानाम्यहं पुराप्यस्या माहात्म्यं मूलतोऽपि च ॥ १६ ॥ | इदानीमावयोः कास्ति सा निष्कारणवैरिणी । आनीय तां दर्शयध्वं येन पृच्छाम्यहं स्वयं ॥ १७ ॥ | नृपः स्माह कुमाराधिक्षेपवाक्यैरधोमुखः । नो सा विलोक्यमानापि लब्धा नष्टा तदैव सा ॥ १८ ॥ निराशोऽथ कुमारोऽवक् छलं लब्ध्वा हहा प्रिये ! । प्रणष्टा कापि सा कूटं । वितत्यैतत्तवोपरि ॥१९॥ नूनं तात ! त्वया तस्या वचनेन मुधा निजे । कुले लांछनमानीतं वंशच्छेदश्च निर्मितः ॥ २० ॥ इत्युक्त्वा बहुधा कांतावियोगविधुरस्ततः । चिंताभरसमाक्रांतः कुमारोऽगान्निजं गृहं ॥ २१ ॥ पृष्टलग्न नरेंद्रोऽपि तत्रागात्पुत्रवत्सलः । स्वयं दद्यानि सर्वत्र तालकाम्युद्घाटयत् ॥ २२ ॥ ऊचे च राक्षसीरूपा चेष्टमानेह सा मया । बहुधा ते प्रिया दृष्टा स्वयं मलयसुंदरी ॥ २३ ॥ दोषस्ततो न
***@****¶¶++<***
चरित्रं
॥१४२॥