________________
मलय-
॥१३९॥
अभद्रमेतत्किं ममैतद्विमलं कुलं । सर्वतो विस्फुरल्लोके सकलंकं करिष्यति ॥ ८० ॥ रजन्यां ज्ञास्यते | नूनं समये तद्यथास्थितं । कथितस्य विसंवादो यद्यस्या न भविष्यति ॥ ८१ ।। ध्यात्वेति भूपतिः स्माह चिंताचांतमुखच्छविः । कथनीयं न कस्यापि गोप्यमेतत्त्वया शुभे॥ ८२ ॥ सोवाचाहं किमज्ञाना ज्ञाता युष्माभिरीदृशी । भवेयं यदि नैकांते न ब्रूयां तत्तवैव हि ।। ८३ ॥ ततः सत्कृत्य सा राज्ञा विसृष्टागान्निजं गृहं । वेषादिकं च राक्षस्यास्ततः सर्वमसज्जयत् ॥ ८४॥
रजन्यां सा समागत्याऽजल्पन्मलयसुंदरीं । स्थातव्यं तावदत्रैव स्वया पुत्रि गृहांतरे ॥ ८५ ॥ यावद् द्वारस्थिता दुष्टां हत्वा तां राक्षसीमहं। आगच्छामि समीपं तेऽन्यथानिष्टं भविष्यति ॥ ८६॥ | शिक्षां दत्वेति सा गत्वा बहिर्वस्त्रविवर्जिता । चकार राक्षसीरूपं वर्णकैश्चित्रितांगका ॥ ८७ ॥ दधा
रोल्मुकनास्येन कपालक्षुरिकाकरा । राज्ञो यथायथाख्यातं चकार च तथा तथा ॥ ८८ ॥ अत्रांतरे | समीपस्थाऽन्यवेश्मोपरिवर्त्तिना । दृष्टा छन्नेन पापिष्टा तथारूपा नृपेण सा ।। ८९ ॥ सत्यं तत्किल | | संजातं यत्तया कथितं मम । तदंको मे कुले माश्मृत मास्म जमोऽप्ययंः ॥ ९० ॥ करिष्यति मभैषा.
॥१३॥
-