________________
मलय
॥१३८॥
K
उपद्रोतुममुत्र त्वां भ्रमंती राक्षसी निशि । दृष्टेका प्रतिजघ्ने च जाग्रत्या तनये ! मया ॥ ६९ ॥ ततो यदि त्वमाख्यासि भूत्वाहं तादृशी ततः । तथा तां विदधाम्यत्र पुनर्नायाति सा यथा ॥ ७० ॥ न श्रुतं किं त्वया संति रक्षसामपि भेषजाः । ततो मलयसुंदर्या मुग्धया मानितं तथा ॥ ७१ ॥ त स्मिंश्च समये तत्र नगरे मायुपद्रवं । ज्ञात्वा दुष्टा गता छिन्नन्नासा सा राजसन्निधौ ॥ ७२ ॥ याचित्यैकांतमाभाषि तथा भूपश्छलज्ञया । तवाख्यामि हितं स्वामिन्! यदि त्वं मे प्रसीदसि ॥ ७३ ॥ दत्वाभयं ततो राज्ञा सादरं भणिता वद । सावोचन्नृप ! युष्माकं वधूरेषा हि राक्षसी ॥ ७४ ॥ प्रत्ययश्चेन्न मे वाक्ये युष्माभिर्द्रसंस्थितैः । दृष्टव्येयं ततः पापा निजावासस्थिता निशि ॥ ७५ ॥ देवैषा निशि राक्षस्या रूपेण स्वगृहांगणे । परिभ्रमति वल्गंती पश्यंती सर्वतो दिशः ॥ ७६ ॥ मंद मंदं च फेरकारान मुंचत्येषा भयंकरान् । तेनोच्छउति लोकानां मारिरेषा पुरे तव ॥ ७७ ॥ धियमाणा तदा रात्रौ किंतुपद्रोष्यति त्वकं । प्रभाते देव! तेनैषा निग्राह्या सुभटेस्त्वया ॥ ७८ ॥ पुराप्यासीन्नृपो मारिहेतुं ज्ञातुं समुत्सुकः । अचिंतितमिदं श्रुत्वा तदा चित्ते चमत्कृतः ॥ ७२ ॥ अहो
01:04
184
चरित्रं
॥१३८