________________
मलय-IX लंबप्रयाणकैः । सुताजामातृलाभोक्त्या स पित्रोरकरोन्मुदं ॥ २॥ तयोर्वृत्तांतमाकर्ण्य कुमारात्स ||
नरेश्वरः । नित्यमानंदितस्तस्थो महादेव्या समं ततः॥ ३ ॥ महाबलस्य तत्राथ भुंजानस्य महा॥१३२॥
सखं। साई मलयसंदर्या ययौ कालः कियानपि ॥४॥ अथान्यदा तयोगेंहगवाक्षांकोपविष्टयोः । दंपत्योश्छिन्ननासा सा नारी द्वारमुपागता ॥ ५॥ महाबलेन तां दृष्ट्वा जगदे वल्लभांप्रति । सैषां यस्याः खरं श्रुत्वाऽनुयातोऽहं प्रिये तदा ॥ ६॥ नतो मलयसुंदर्या स्थिरदृष्ट्या निरोक्ष्य तां । उप| लक्ष्यांगचिर्नेश्च प्रोचे विस्मितचेतसा ॥ ७॥ नूनं कनकवत्येषा सेवावाभ्यां तदा प्रिय! । मंजू
पांतः स्थिता नद्याः प्रवाहे या प्रवाहिता ॥ ८॥ गुह्यं वक्ष्यति किंचिन्न लज्जयैषोपलक्ष्य मां । अप* व्यन्तश्चशृणोम्यत्र तदहं युष्मदाज्ञया ॥ ९॥ प्रियादेशेन तस्थुष्यां तस्यां कांडपटांतरे । प्रविष्टा
तत्र सा नारी प्रतीहारनिवेदिता ॥ १०॥ पृष्टा साथ कुमारेण प्रतिपत्तिपुरस्सरं । सम्यक् सर्व ममा. ख्याहि शुभे त्वं चरितं निजं ॥ ११ ॥
सा जगाद कुमारेंद्र चंद्रावत्याः पुरः प्रभोः । भार्या वीरधवलस्य नाम्ना कनकवत्यहं ॥ १२ ॥