________________
मलय
॥१३३॥
100% 46
40060448
चुकोप भूपतिर्मह्यमेवमेवान्यदा ततः । त्यक्त्वा सर्वमहं कोपान्निर्गता राजवेश्मतः ॥ १३ ॥ मिलितो मे पुमानेको दक्षो वैदेशिको युवा । तेन संकेतिता गोलानद्यां देवीगृहे त्वहं ॥ १४ ॥ तस्याहं मिलिता तत्र गत्वा रात्रौ कथंचन । धूर्तेनोक्तं ततस्तेन चौराः संत्यत्र मा वद ॥ १५ ॥ गृहीत्वा | तेन मत्पार्श्वात्सर्वं वस्त्रादि भाषितं । भद्रे ! प्रविश मंजूषां यावद्गच्छंति तस्कराः ॥ १६ ॥ प्रविष्टा तत्र भोताहं तेनापि मम कंचुकं । हारं चादाय शेषं तु मंजूषायां प्रचिक्षिपे ॥ १७ ॥ मंजूषाया मुखं तेन पापेन पिहितं द्रुतं । संकेतितो द्वितीयोऽथ कोऽपि तत्र समागतः ॥ १८ ॥ ताभ्यामुत्पाट्य मंजूषा द्वाभ्यां गोलानदीरये । मुक्ता तरीतुमारब्धा तरीवत्तरितुं ततः ॥ १९ ॥ कुमारेण ततोभाणि त्वं ताभ्यां किमु सुंदरि ! | अज्ञाताभ्यां नदीवाहे पेटांतःस्था प्रवाहिता || २० || अभिज्ञास्ति तयोः काचित् किंचिज्जानासि कारणं । सा प्रोवाच ममाज्ञातौ तौ निष्कारणवैरिणौ ॥ २१ ॥ अनिमित्तमहो चक्रे ताभ्यां तदसमंजसं । इति जल्पन् शिरःकंपं कुमारः कृतवान्मुहुः ॥ २२ ॥
जगादाथ पुरो ब्रूहि मंजूषा कुत्र सा गता । सा स्माह रजनीप्रांत कुमारात्र समागता ॥ २३ ॥
***bab€***
चरित्रं
॥१३३॥