________________
मलय
॥१३१॥
गत्वादेशेन युष्माकमहं वर्धापयामि तौ। विदधामि तथा प्रत्युज्जीवितानंदिमानतो ।। ९१ ॥ | अन्यथा दुःखनिर्मग्नौ नूनमेतौ मरिष्यतः । प्राणेभ्योऽपि तयोर्यस्मादेषाभीष्टा सुताधिकं ।। ९२ ॥ श्रुत्वेति भूपतिः स्माह प्रहितुमसहोऽपि तं । ययेवं वत्स तद्गच्छ वदामो नैव किंचन ॥९३॥ अग्रेडप्यस्त्यावयोः प्रीतिवल्ली संबंधवारिणा | सिक्तानेनाधुना वाच्यं पितुरित्यात्मनस्त्वया ॥ ९४॥ महाबलं
खसारं चापप्रच्छे मलयस्ततः । गमनायाऽसुखं पित्रोराविष्कुस्तयोः पुरः ॥ ९५ ॥ महाबलो जगा-3 . देति वाच्यं स्वसुरयोर्मम । कुमार। सारसौजन्य नमस्कारपुरस्सरं ॥९६।। अनाख्याय स्ववृत्तांतं कन्या| मादाय गच्छता । महाबलेन चौरेण यदुःखं युवयोः कृतं ॥ ९७ ।। युवाभ्यां मम निःशेषमागः | शंतव्यमेव तत् । उत्पाट्याहं समानीतस्ततः परवशो यतः॥ ९८ ॥ ऊचे मलयसुंदर्या भ्रातरागमनादिकं | त्वयांबा तातपादानां विज्ञप्यं सर्वमप्यदः ॥ ९९ ॥ चिंता कापि न कर्तव्या सुखेन च | स्थितास्म्यहं । इति च भ्रातराख्येयं गंतव्यं पथि सुष्टु च ॥ ३०० ॥ कुमारो मलयः सोऽपि सर्व- मभ्युपगत्य तत् । विमुंचन्मोचयंश्चापि बाष्पांबु प्रस्थितः पथि ॥ १॥ पुरों चंद्रावती प्राप्य निर्वि
॥१३॥