________________
मलय
॥१२७॥
PXEXPERIE
संध्यायां योगिना तेन तत्रायातेन गह्वरें । मम भालं पुनः स्वामिन्नर्कसीरेण घर्षितं ॥ ४६ ॥ | संजज्ञेऽहं पुनर्देव । नैसर्गिकवपुः पुमान् । तेनोक्तश्च कुमारष महामंत्रश्च साध्यते ॥ ४७ ॥ पार्श्वे ज्वलनकुंडस्य द्वावप्यावां गतौ ततः । योगिनोक्तं महावीर पुनरानय तं शवं ॥ ४८ ॥ अत्रागत्य तथैवाथ गृहीत्वा तच्छवं पुनः । समर्पितं मया तस्मै योगिने मंत्रसिद्धये ॥ ४९ ॥ स्नपयित्वा च तत्तेन स्थापितं मंडलांतरा । प्रज्ज्वालितो ऽनलश्चाहं कृतश्चोत्तरसाधकः ॥ ५० ॥ यथा यथा जजापैष योगी मंत्रं तथा तथा । उत्तस्थौ मृतकं तत्र निपपात पुनः पुनः ॥ ५१ ॥ अर्द्धरात्रो ययौ तस्य जापमेवं वितन्वतः । ततो डमरुकध्वानाः श्रूयंतेस्म विहायसि ॥ ५२ ॥ कुशुद्धं मृतकं ह्येतत् पुरुषो रेन सेत्स्यति । जल्पंतीत्यवतीर्णाभ्राद्देवता कुपिता तदा ॥ ५३ ॥ तया देवतया योगी केशग्राहं स साधकः । उल्लाल्य चिक्षिपे मध्ये ज्वलज्ज्वलनकुंडके ॥ ५४ ॥ तद् दृष्ट्वाहं दृढांगोऽपि क्षुब्धः किंचन मानसे । अतस्तया निबद्धौ मे हस्तौ पन्नगपाशकैः ॥ ५५ ॥ कुमारं सुंदराकारं क एनं मारयिष्यति । जल्पंतीति ययो व्योम्नि । सा मां धृत्वाशु पादयोः ॥ ५६ ॥
उछालीने
19
चरित्रं
॥१२७॥