________________
*********
मलय
वत्या महादेव्या स्वोत्संगे सा वधूंर्धृता । भणिता च त्वया वत्से! कथं नात्मा प्रकाशितः ॥ ३४ ॥ * अथवाऽकारि हे वत्से ! युक्तं मौनं त्वया यतः । मन्येताघटमानं कः कथ्यमानमपि त्वया ॥ ३५ ॥ ॥ १२६॥ क "अहो अज्ञैस्तवास्माभिः कीदृशं विहितं सुते । अभविष्यदनिष्टं चेत्किंचित्तन्नो गतिश्च का ॥ ३७ ॥
अस्माकं कानिचिन्नूनं पुण्यान्यद्यापि जाग्रति । संजातं ते शुभोदर्के यतः कष्टमपीदृशं ॥ ३८ ॥ ततोऽस्माकमयं मंतुः क्षेतव्यस्तनये! त्वया । परमार्थविदो येन भवंति हि कुलोद्भवाः ॥ ३९ ॥ धन्या वत्से ! वयं सर्वमस्माकं सफलं तथा । आत्माप्युड्डूयमानोऽयं सुखमग्नः स्थितोऽद्य वै ॥ ४० ॥ यत्त्वया गुणशालिन्या विधिनोद्वढया तया । वध्वा सह समायातः कुमारः सत्यंसंगरः ॥ ४१ ॥ अथो मलयसुंदर्यै देवी पद्मावती ददौ । स्वहस्तेनैव दिव्यानि वस्त्राण्याभरणानि च ॥ ४२ ॥ सत्कुर्वती प्रशं संती बहुधेति वधूं निजां । यावत्तस्थौ महादेवी तावद्भृपोऽवदत्तं ॥ ४३ ॥ त्वया वत्स, विमुक्तेनाsaशैलस्य कंदरे | अहिरूपधरेणानुभृतं किं किं महावल ॥ ४४ ॥
कुमारः स्माह तत्रैव स्थितेन गमितं मया । दिनशेषं सुखेनैव पवनाहारकारिणा ॥ ४५ ॥
*****
चरित्रं
पीदृशम्
1
॥१२६ ॥