________________
मलय
नृपोऽथ कथयामास कथं सोऽभिनवः पुमान् । अस्माकं पश्यतामेव वत्साभूदिव्यकामिनी ॥२३॥ ॥१२५॥
कुमारः स्माह देवेह मध्यरात्रे तदा मया | संप्राप्तेन श्रुतो दीनः खरो नार्याः कुतोऽपि हि ॥२४॥ गच्छतानुस्खरं तत्र मया मुक्ता वधूस्तव । पुंरूपा कदलोगेहे मद्वस्त्राभरणान्विता ॥ २५॥ ततो नव| नरस्यास्याऽत्रायातस्य कथंचन । युष्माभिर्घटसर्पस्य दिव्यं दत्तं सुदुष्करं ॥ २६ ॥ युष्माकं भरिपुण्येन दिव्ये तत्र नरेश्वर। अहमेव सर्परूपो विधिना ढोकितः किल ॥ २७ ॥
मया करगृहीतेन स सम्यगुपलक्षितः। ततो भालतलं तस्य निष्ठयूतेन च मर्दितं ॥ २८ ॥ all जज्ञे युष्मासु पश्यत्सु कामिनी स नरस्ततः । इत्येष परमार्थस्तु वृत्तांतस्यास्य भूपते ॥ २९ ॥ नरें
द्रप्रमुखाः सर्वे सानंदा दृष्टिमक्षिपन् । नीरंग्याच्छादितांग्या द्राग वध्वास्तस्या उपर्यथ ॥३०॥ कुमाKalरानुज्ञया साथ ननाम श्वसुरादिकान् । तेऽपि प्रमुदितास्तस्यै ददुः सर्वे वराशिषः ॥ ३१ ॥ मुंचन्न
श्रूणि धुन्वंश्च शिरोऽवोचन्नृपस्ततः । अहो मया समाचेरे खवध्यां शात्रवोचितं ॥ ३२ ॥ जनो al जगाद हे देव कार्यः खेदोऽत्र न त्वया । अपराध्यति येनैकमज्ञानं नापरं पुनः॥ ३३ ॥ पद्मा
Bhadriteriod
॥१२५॥