________________
मलय
॥१२४॥
X|| न त्वामत्र परिभ्रमन् । ततस्तात मया तस्य वचनं मानितं तदा ॥ १२ ॥
___ लक्ष्मीपुंजस्य हारस्य प्रणाशो मम मामभूत् । इति चिंतयता हारो निक्षितो वदने मया ॥ १३ ॥ तेनाथ योगिना कांचिद् घर्षयित्वाशु मलिकां । अभिमंत्र्य च मे भालतले चक्रे विशेषकः | ॥ १४ ॥ ततोऽहं कजलच्छायः संजातः पन्नगो महान् । दृश्यमानोऽपि सर्वेषां जीवानां प्राणनाशनः ॥१५॥ दर्शयित्वा गुहामेकां नातिदूरे ततो मम । खकार्यसाधनकृते महायोगी स जग्मिवान् ॥ १६ ॥ तत्रानिलं पिबन् यावत्सुखेनैव स्थितोऽस्म्यहं । तावद् गारुडिकाः केऽपि पश्यंतः सर्पमै यरुः |॥ १७ ॥ मंत्रेण स्तंभयित्वाहं धृतः क्षिप्तश्च तैर्घटे । समानीय च युष्मभ्यं यक्षगेहे समर्पितः ॥१८॥
युष्माभिः स समादिष्टो दिव्यं कत्तै नवः पुमान् । निर्भयेन ततस्तेन समाकृष्टो घटादहं ॥ १९ ॥ मया करधृतेनैव हारः कृष्ट्वा मुखान्निजात् । उपलक्षितरूपस्य तस्य कंठे निचिक्षिपे ॥२०॥ | पश्चात्सोऽभून्नरः साक्षादिव्यरूपा नितंबिनी। इत्यादि देव निखिलं प्रत्यक्षं भवतामपि ॥ २१ ॥ बहुधाराध्य भीतेनालंबशैलस्य गह्वरे । तत्रैव मोचितः सर्पः स त्वयेति कथावधि ॥ २२ ॥ युग्मं ॥
॥१२४॥