________________
मलय
॥१२३॥
811188120010268846299818300
कृत्वा पद्मासनं तेन ध्यानस्तिमितचक्षुषा । तावज्जतो महामंत्री निशांतो यावदाययौ ॥ १ ॥ उलल्यानलकुंडे तत् पतितं मृतकं ननु । निर्विण्णः स ततो योगी ध्यानेऽमृच्छिथिलादरः ||२|| उत्पत्य मृतकं व्योनि साट्टहासास्यभीषणं । गत्वा तत्रैव न्यग्रोधे लंबमानं तथा स्थितं ॥ ३ ॥ अथोचे योगिना किंचिदागतं स्खलितं मम । सिद्धस्तेन न मंत्रोऽयमुत्पत्य मृतकं गतं ॥ ४ ॥ एष्वत्यां निशि कर्त्तव्यं पुनमंत्रस्य साधनं । ध्रुवं सम्यग्मयाप्यत्र स्थातव्यं कृपया मम ॥ ५ ॥ साहाय्येनैष मंत्रस्ते कुमार मम सेत्स्यति । सदा परोपकारी त्वं कुरु मे तदुपक्रियां ॥ ६ ॥ अंगीकृत्य वचस्तस्य देवाह तत्र तस्थिवान् । बिभ्यता भणितं तेन योगिनापीति मांप्रति ॥ ७ ॥
तिष्टं
कुमारात्र मत्पार्श्वे कोऽपि पूरुषः । राज्ञोऽन्यो वा यदि दृष्टौ तदेवं चिंतयिष्यति ॥ ८ ॥ केनापि छद्मना नूनं प्रतार्यानेन योगिना । कुमारो नृपतेरेष ग्राहितः पृष्टमात्मनः ॥ ९ ॥ तदेनं योगिनं हत्वा कुमारं मोचयाम्यमुं । अन्यथा यास्यति क्वापि गृहीत्वैष प्रतारकः ॥ १० ॥ अतो यदि कुमारत्वमुपकारं वहेर्हृदि । तर्हि हंत दिनं यावद्रूपमन्यत्करोमि ते ॥ ११ ॥ कोऽपि येनाभिजानाति
#09 ff ff+fo!!
चरित्रं
॥ १२३॥