________________
मलय
शाखायुग्मस्य मध्येऽत्र क्षिप्त्वांह्रियुगलं मम । गता सा देवता शीघ्रं लंबमानः स्थितस्त्वहं | ॥१२॥ "
॥ ५७ ॥ अत्रेदं मृतकं चापि तथैवागत्य तस्थिवत् । ईक्षांबभूवुस्तत्सर्वे वालयित्वाथ कंधरां ॥५८॥ MF ऊचुश्चाक्षतसर्वांगं कुशुद्धं मृतकं कथं । ततोऽवदन्नृपः शीर्ष धुन्वन् किंचिद्विचिंतयन् ॥ ५९ ।। अहो ।
यत् त्रोटितं दंतैः स्त्रोनासाग्रं किलामुना । भविष्यत्यास्यमध्ये तत् कुशुद्धं तेन नन्विदं ॥६०॥ शिरः सर्वेऽपि धुन्वंतो जल्पंतिम नृपंप्रति । एवमेव नरेंद्रेदं नान्यथा ते वरा मतिः ॥ ६१ ॥ राजापि वीक्षयामास तन्मुखं निजपूरुषैः । नासाग्रे वीक्षिते तत्र सर्वेषां प्रत्ययोऽभवत् ॥ ६२ ॥ सखेदो राज| सूराख्यन्नेतद् ज्ञातं मयापि हा। महद्विनाशितं कार्य योगिनः कथितं न यत् ॥ ६३ ॥ राजोचे वत्स |मा खेदं कार्षीस्त्वं हृदये वद । नागबंधः कथं नष्टः स दृढो भुजयोस्तव ॥ ६४ ॥ कुमारः माह देवाऽहिपुच्छं लग्नं तु लंबितुं । इतस्ततश्चलदैवयोगादागान्मुखे मम ॥ ६५ ॥
रोषेणाथ मया तच्च दशनैश्चर्वितं मुहः। पीडितः पन्नगः सोऽथ बंधादुच्चलितःक्षणात् ॥६६॥ पतितश्च महीपीठे न लग्नः क्वापि मे तनौ । विषापहारिमंत्राणामौषधेश्च प्रभावतः ॥ ६७ ॥ मया
॥१२