________________
मलय
*********69
॥१२०॥ ॥
स्थितः । खड्गमादाय वेगेन भूत्वा चोत्तरसाधकः ॥ ६६ ॥
योगिनोक्तमथो वीर! नार्येषा यत्र रोदिति । वटे तत्राक्षतांगोऽस्ति शाखाबद्धी मलिम्लुचः ॥६७॥ गृहीत्वा तं कुमारात्रानय चौरं सलक्षणं । तेनेत्युक्तेऽसिना सार्द्धं यावत्तत्राहमीयिवान् ॥ ६८ ॥ तावन्यग्रोधशाखायां बद्धदस्योरधोभुवि । उपविष्टा मया दृष्टा रुदत्येका वरा वशा ॥ ६९ ॥ आभाषिता चकासि त्वं करुणं किं च रोदिषि । एकाकिनी श्मशानेऽत्र किं रात्रौ भीषणे भृशं ॥ ७० ॥ सहसा मुखमुद्घाट्य पश्यंती संमुखं मम । दृष्ट्या निश्चलया साथ वक्तुमेवं प्रचक्रमे ॥ ७१ ॥ हंहो सत्पुरुषाहं किं मंदभाग्या वदामि ते । उद्धो वटशाखायां यः पुमानत्र विद्यते ॥ ७२ ॥ स एष लोभसा' राख्य ऋद्धो मुषितनागरः । अज्ञातस्थानकोऽलंब गिरिवासी मलिच्छुचः ॥ ७३ ॥ तृतीयेऽयतनस्याहो या राजनरैः क्वचित् । लब्ध एष नृपेणाथ सायमेवं च घातितः ॥ ७४ ॥ एतस्याहं प्रियाभीष्टा दुःखिता तेन रोदिमि । प्रत्यूषेऽयैव संजात आवयोरिह संगमः ॥ ७५ ॥ परं स्नेहः स कोऽप्यद्यानेन प्रौढः प्रकाशितः । खात्कुर्वन्नपि यूश्चित्ते गदितुं शक्यते न हि ॥ ७६ ॥ तथा कथं विधेहि
*40*60648389
चरित्रं
॥१२०