________________
चरित्रं
मलय- मादाय मुक्त्वा तत्र सुखेन ते । पुनरागत्य भूपायाऽशंसन् राजनरैः सह ॥ ११ ॥ अथोचे सा नृपेण
|| त्वं पुंरूपाभूः शुभेऽधुना । अस्माकं पश्यतामेव संजाता युवती स्फुटं ॥ १२ ॥ परमार्थः क ईदृक्षः ॥११५॥
कासि त्वं वररूपभाक् । सत्यमाख्याहि नः सर्व येन स्याच्चित्तनिर्वृतिः॥१३ ॥ दध्यो साग्रेऽपि संजातं रूपं स्वाभाविकं मम | निष्यतेन कुमारस्य भालदेशनिवेशनात् ॥१४॥ अधुना त्वहिजिह्वाया लेहनेन बभूव तत् । हारोऽप्यर्पित एतेन स किं सर्पोऽभवत्चतः ।। १५ ।। न त्वेतद्घटते सम्यक् परमार्थे च न वेदम्यहं । घटते यावदेवात्र तावदेव वदामि च ॥ १६ ॥
इदं जगाद सा बाला लज्जानम्रमुखी ततः । एतावदेव जानामि नान्यत्किंचिन्नरेश्वर ॥ १७ ॥ * अहं चंद्रावतीखामिश्रीवीरधवलात्मजा | अतीवेष्टा पितुर्देव! नाम्ना मलयसुंदरी ॥ १८ ॥ बभाषे
भूपति हो युक्तियुक्तमिदं वचः । यतोऽन्यत्पूर्व व्याख्यायि नररूपस्थयतया : १९ ॥ चंद्रावती पुरी कास्ते श्रीवीरधवलस्य सा । क्व चेदं पृथिवीस्थानमेषा क्वैकाकिनी पुनः ॥२०॥ भविष्यति कुतोऽप्यस्य वृत्तांतस्य प्रकाशनं । एषापि यदि सत्यास्ति नार्येव वरवर्णिनी ॥ २१ ॥ आगमिष्यति शीघ्रं
॥११५॥