________________
चरित्रं
मलय
॥११४॥
Mor थोऽपि महाभीत्या कंपमानोऽब्रवीदिदं । मूर्खणेदं हहा कार्यमयुक्तं विहितं मया ॥ १० ॥ * वारयन्नपि लोकोऽयं देवी चापि न मानिता । उत्थापितो मयाऽनर्थः स्फुटमेष खयं ततः ॥१॥
न सामान्यो भुजंगोऽयं सर्परूपेण किंवसौ । देवो वा दानवो वापि किंवा शेवः स्वयं ह्ययं ॥२॥ विचित्रशक्तिको किंवा कावप्येतो नरावुभौ । प्रच्छन्नौ केन कार्येण क्रीडतोंतःपुरं किल ॥३॥ ज्ञायते परमार्थों नाधुना तत्किं करोम्यहं । आराधयामि भक्त्येमौ भक्तिग्राह्या हि देवताः ॥ ४ ॥ | उच्चिक्षेपागुरुं भूपः पुष्पायैस्तमपूजयत् । जजल्प च प्रसद्याहिराजं मुंचाशु सुंदरि!॥ ५ ॥ भगवन्न. हिराज त्वं मया दूनोऽस्यनेकधा। तत्प्रसद्य त्वया सर्वः सोढव्यो दुर्नयो मम ॥ ६॥ तया मुक्तोऽथ सर्पः स रमण्याशु करांबुजात् । राजा च ढोकयामास पुरस्तस्य पयो द्रुतं ॥७॥ पायं पायं च तद्दुग्धं यावत्सौहित्यमाप सः । राज्ञा तावत्समादिष्टास्त एवेत्यहिचंडिकाः ॥ ८॥ अहो एष महासर्प आनीतः स्थानकाद्यतः । गृहीत्वा तत्र युष्माभिमोक्तव्योऽतिप्रयत्नतः॥ ९॥ यदि स्तोकापि पीडास्य नागराजस्य निर्मिता । ततो युष्मानहं सर्वान् हनिष्यामि स्वयं ननु ॥ १० ॥ तथेत्युक्त्वाऽहि
PREPARAN-
HANSAR