________________
चरित्र
मलय ॥११३॥
दिव्येन वर्णिका चटति ध्रुवं । सुवर्णस्येव जात्यस्य निर्गतस्याग्निमध्यतः ।। ८९ ॥ पुंरूपा वनिता साथ स्मरती हृदये तदा । परमेष्टिमहामंत्रं श्लोकार्थकृतनिश्चया ॥ ९० ।। घटमुद्घाश्य जग्राह महासर्प स्थिराशया । करेण सर्वलोकस्य चमत्कारं विधायिनी ॥ ९१ ॥
- सपोंऽपि रज्जुसदृशी भूत्वा तस्थौ तदाननं । संपश्यन् स्नेहभावेन वीसितो विस्मितैर्जनैः ॥१२॥ ततो निःशेषलोकेन शुद्धः शुद्ध इति द्रुतं । जलपता युगपत्ताला पाणिभ्यां पातितात्मनः ॥ ९३ ॥ | तेनाहिना करातेन मुखादाकृष्य लीलया। तस्याः कंठे महाहारः खमुखेनैव चिक्षिपे ॥ ९४ ।। राजा लोकश्च सर्वोऽपि विस्मितो हारदर्शनात। उपलक्ष्य च तं हारं मिथो वस्त्राणि दृष्टवान् ॥९५॥ अहो किमेतदाश्चर्य देवीहारः स एव हि । लक्ष्मीपुजोऽयमित्यचे सर्वः कोऽप्यतिविस्मितः॥.९६ ॥ लिलिहे पन्नगेनास्य पुंसो भालं स्वजिह्वया । सहसा सोऽभवदिव्यरूपा स्त्री तरुणी ततः ॥ ९७ ॥ विस्तार्योपरि तस्याः स्वां फणां सर्पेण तस्थुषा । पुंसश्छत्रधरस्यक क्षणं लीलाविडंविना ॥ ९८॥ | अपूर्वमिदमाश्चर्यं पश्यन्नेत्रैर्जनस्तदा । वक्तुं शशाक नो किंचिदेवमेव स्थितः परः ॥ ९९ ॥ नृना
॥११३३