________________
मलय-
चरित्र
॥११२॥
मत्कुमारस्य किं कोऽप्येष पुमानिह । शुद्धिं कामपि गदितुं कुतोऽप्यय समागमत् ॥ ७० ॥ किंवा केनापि रिपुणा छलघातेन तं सुतं । हत्वा कुंडलवाप्तांसि गृहीतान्यत्र कुत्रचित् ॥ ७९ ॥
ततो गत्वेक्ष्यते सैष दिव्येन स्यात्कथं कथं। इति यक्षगृहं देवी ययौ सा स परिच्छदा ।। ८० ॥ | पूर्वमेवागतस्तत्र राजा यक्षस्य मंदिरं । धनंजयस्य लोकोऽपि कोतुकेनामिलत्ततः ॥ ८१ ॥ तेऽपि | गारुडिकास्तत्राशयाता भूपं व्यजिज्ञपन् । देवाऽलंबादिछिद्राणि दर्श दर्शमनेकधा ॥ ८२ ॥ कनलाभो महाकायः फूत्कारैरतिदारुणः । एष सों घटे क्षिप्त आनिन्येऽस्माभिरत्र हि ॥८३॥ साहिं धनंजयस्याग्रे मोचयित्वाथ तं घटं । राज्ञोचे तं नरं शीधमत्रानयत रे भटाः ॥ ८४ ॥ खड्गव्यग्र| करैर्वाद वेष्टितः सुभटैः पुमान् । शुचीभूतः स आनीतस्तत्र रूपश्रियाधिकः ॥ ८५॥ दृष्ट्वा तं चिंत| यामास देवी लोकोऽप्यहो कथं । किलैश्यैतयाजकृत्या भवत्येष मलिम्लुचः ॥ ८६ ॥ उत्तिष्टते, | जलादहिरिंदोरंगारवर्षणं । अमृताद्यदि दाहोऽपि कार्यमस्मादिदं ततः॥ ८७॥ इदं दिव्यं नरस्यास्य न दातुं देव युज्यते । राज्ञोचे कोऽपि दोषो न दिव्ये दत्तेऽत्र भो जनाः ॥ ८८ ॥ शुद्धानामिह
॥१२॥