________________
मलय
.॥१९१॥
K+****9846064888888888084
अलब्धे दुर्लभे हारे कुमारे च महाबले । न क्षमा जीवितं धर्तुं दुःखभारेण भारिता ॥ ६७ ॥ भृगुपातं करिष्येऽहं गत्वाऽलंबगिरौ ततः । क्षंतव्योऽतस्त्वया सर्वोऽधुना दुर्बिनयो मम ॥ ६८ ॥ नृपोऽवोचदथो देवी वाच्या मम गिरा त्वया । समानं मे तवाप्येतद् दुःखं देवि ! सुदुस्सहं ॥ ६९ ।। मया प्रस्थापिताः संति कुमारं वीक्षितुं नराः । दशै दर्श समायांतु तावत्सर्वेऽपि ते त्विह ॥ ७० ॥ प्रवृतिं तस्य चेत्कांचिल्लभंते ते कथंचन । लभ्यश्च दिवसी देवि ! कुमारेणाद्य पंचमः ॥ ७१ ॥ कुमारस्याद्य शुद्धिर्न यदि कापि भविष्यति । शरणं मेऽपि ते मार्गः प्रभाते त्वं त्वरस्व मा ॥ ७२ ॥ तस्य कुंडलवस्त्राणि लब्धान्यथैव देवि ! हे । अपूर्व पुरुषाद्यस्मात्कुमारस्य मया खलु ॥ ७३ ॥ अर्पयेतान्यये! देव्यै कथनीयं तथा त्वया । यथैतानि कुमारोऽपि हारोऽप्यत्र तथैष्यति ॥ ७४ ॥ अनेन कारयिष्यामः पुंसा दिव्यं तु सांप्रतं । इत्युक्तेऽनेन सा दासी देव्यै गत्वाखिलं जगौ ॥ ७५ ॥ तेषु कुंडलवस्त्रेषु तया दत्तेषु विस्मिता । देव्यब्रवीत्किमेतद्भो लब्धान्येतान्यहो कुतः ॥ ७६ ॥ तेषां कुंडलवस्त्राणां लाभवृत्तांतमाह सा । ततो जगाद सा देवी हर्षशोकाकुला समं ॥ ७७ ॥ अभीष्टो
********] + B
चरित्र
॥ १११५