________________
मलय- || इति श्रुत्वापि सा दध्यो चित्ते मलयसुंदरी । अहो पुनः समायातं ममैतदसमंजसं ॥ ५५ ॥ प्राणां
तिका महापन्मे पुनरेषा समाययौ । अलक्षितानि केनापि विधेर्विलसितान्यहो ॥ ५६ ॥ ॥११०॥
चिंतयंत्यां तमेवैकं श्लोकं मोनेन चेतसि । तस्यामूचे महामात्यैः सम्यग्न ज्ञायतेऽपि किं ॥५७॥ HDन साधुः कोऽपि चेदेष न चोरश्चेष्टयानया । पुरुषस्योचितं दातुं दिव्यमेतस्य देव तत् ॥ ५८ ॥
यद्यशुद्धस्तदा चौरः साधुः शुद्धश्च यद्ययं ॥ इत्थं कृते तु युष्माकं नापवादो जने भवेत् ॥ ५९॥ तत्वोकृत्य नृपेणोचे दिव्यं देयं तु कोदृशं । तैःप्रोचे घटसर्पस्य दिव्यं गाढं नरेश्वर ॥६॥राजादिष्टास्ततो जग्मुः सर्पमानेतुमुत्कटं । मेखलायामलंबादेस्तस्यां गारुडिका द्रुतं ॥ ६१ ॥ लात्वा | कुंडलवस्त्राणि स नरो नरवत्रिणा । नृपं विज्ञपयामास रुद्धकंठा शुचां भरैः ।। ६३ ॥ देवी विज्ञप. | यत्येवं देव!न ज्ञायते क्वचित् । महाबलकुमारः स तावत्सर्वगुणाकरः ॥ ६४ ।। तदेवाय दिनं तेन यदुक्तं पंचमं तदा । मृतो नूनं कुमारस्तदागतोऽभूदिहान्यथा ॥६५॥ लक्ष्मीपुंजस्य हारस्य शुद्धि- स्तस्यापि नाभवत् । मृते तस्मिन् कुमारे मे हारप्राप्तिस्तु दुर्लभा ॥ ६६ ।।
॥११॥