________________
मलय
॥१०९ ॥ ॥
अथोचे तेन राजेंद्र!तस्य मित्रमहं प्रियं । महाबलेन तेनेष वेषो दत्तोऽखिलोऽपि मे ॥ ४४ ॥ सूरपालोऽवदत्कुत्र सोऽधुनास्ति महाबलः । सोऽवोचदत्र कुत्रापि स्वेच्छाचारेण तिष्ठति ॥ ४५ ॥ नृपोsarचत्कुमारश्चेत्वापि पुण्यैर्भवेदिह । तत्किमागत्य नास्माकमहायोक्त्वा मिलेदहो ॥ ४६ ॥ किंतु | नास्ति कुमारोऽत्र पतितः क्वापि संकटे । बहुधा वीक्षितोऽप्यत्र नापि कुत्रापि येन सः ॥ ४७ ॥ यदि त्वं स्नेहलं मित्रं कुमारस्य सुतस्य मे । तत्किं कोऽपि जनोऽस्माकं मध्ये त्वां नोपलक्षयेत् ॥ ४८ ॥
इत्यायुक्तोऽपि यावत्स ददे किंचन नोत्तरं । ततो राज्ञा पुनः प्रोचे हुं ज्ञातं घटते ह्यदः ॥ ४९ ॥ अदृष्टं यद्गतं पूर्वं कुमारवसनादिकं । तत्सवं तेन चौरेण प्रचंडेन हृतं खलु ॥ ५० ॥ यः कल्ये निगृहीतोऽत्र पौरसर्वस्वमोषकः । लोभसारोऽभिधानेनालंबाद्रेः कंदरास्थितिः ॥ ५१ ॥ युग्मं ॥ तस्यैष बांधवः कोऽपि संबंधी वापरो नरः । सांप्रतं तद्वियोगेन निर्बुद्धिश्चलिताशयः ॥ ५२ ॥ संभ्रमी बंभ्रमीत्यत्र तं पश्यन्निजबांधवं । विभ्रद्वेषं कुमारस्य बहुमौनोऽल्पभाषकः ॥ ५३ ॥ युग्मं ॥ संभाव्यते हतोऽमीभिः कुमारोऽपि महाबलः । अत एषोऽपि मे वैरी नीत्वा तत्र निहन्यतां ॥ ५४ ॥
चरित्रं
॥१०९॥