________________
मलय
॥१०८॥ ॥
00100%
निशा तस्याः सनायातीति चिंतया । प्रभाते सति सा दध्यौ यामि तावत्पुरांतरे ॥ ३३ ॥ भविव्यति गतस्तत्र पित्रोरुत्कंठितो हि सः । ध्यात्वेति चलिता यावत्साऽविशद्गोपुरं पुरः ॥ ३४ ॥ तलाध्यक्षेण तावत्स दिव्यवेषो विलोकितः । उक्तश्चाहो युवन् कोऽसि त्वमपूर्वोऽत्र मे पुरे ॥ ३५ ॥ aari कमयस्मिन् दिशो मौनेन पश्यति । सम्यगालोकितं दंडपाशिकेने तरैरपि ॥ ३६ ॥ तानि कुंडलवस्त्राणि देहे तस्योपलक्ष्य तैः । ऊचे कुमारसत्कानि नूनमेतान्यदः किमु ॥ ३७ ॥ तलारक्षेण तेनाशु राजांतिकमनायि सः । तस्य तं वेषमालोक्य विस्मितास्ते नृपादयः ॥ ३८ ॥ ऊचुश्च कः मानेषोऽदृष्टपूर्वोऽतिरूपवान् । महाबलस्य सर्वोऽयं वेष एतस्य निश्चितं ॥ ३९ ॥
अथावादीतलारक्षो गोपुरं प्रविशन्नयं । दृष्टः पृष्टश्च बहुधा न किंचिदत्त उत्तरं ॥ ४० ॥ पृष्ट राज्ञापि सैषोऽथ कोऽसि त्वं कस्य वा कुतः । सोऽचिंतयन्निजे चित्ते सत्यं वक्ष्यामि चेदहं ॥ ४१ ॥ प्रत्येष्यति तथाप्येते न मे वचसि संप्रति । येनावयोरसंभाव्यो वृत्तांतः सकलोऽप्ययं ॥ ४२ ॥ कुमा| रेण विना तस्माद्वृत्तांतः कोऽपि न स्वकः । प्रकाश्योऽयं मया नूनं यच्च भाव्यं तदस्तु मे ॥ ४३ ॥
******+*+
चरित्रं
॥१०८॥