________________
मलय
चरित्रं
॥१०७॥
सर्वेश्च हुंकार उत्पपात वटस्ततः । वटकोटरसंस्थौ तो कुमारौ द्वौ च जग्मतुः ॥ २२ ॥ गच्छन् वेगेन स प्राप पृथ्वीस्थानपुरं वटः । क्षणेनालंबशैलस्य मेखलायां च तस्थिवान् ॥ २३ ॥ नगरासन्नवर्तिन्या गोलानद्यास्तटे स्थितं । धनंजयस्य यक्षस्य भवनं ते सुरा ययुः ॥ २४ ॥ महाबलोऽपि तद् दृष्ट्वा प्रदेशमुपलक्ष्य च । जगादाद्यापि पुण्यानि जाग्रति ह्यावयोः प्रिये ॥ २५ ॥ वटो यदेष संप्रातः पृथ्वीस्थानपुरं मम । तत्त्यजावोऽधुना शीघ्रमावां न्यग्रोधकोटरं ॥ २६ ॥ देवादेशेन कुत्रापि पुनर्यास्यति चेटः । पतिष्यावस्ततः क्वापि गत्वावां विषमे ननु ॥ २७ ॥
मंत्रयित्वेति सहसा निरीय वटकोटरात । यावत्तौ तस्थतः खस्थावासन्ने कदलीवने ॥२८॥ उत्पतंतं वरं तावदृष्ट्वा ताविति दध्यतुः । एष वृक्षो निजस्थानं पुनः संप्रति गच्छति ॥ २९ ॥ इतश्च वनिताकंदं श्रुत्वा दीनं महाबलः । पुंरूपां स्थापयामास तत्र तां दयितामिति ॥ ३० ॥ अधुनैवागतोऽत्राहं कर्त्तव्या नाधृतिः प्रिये । इत्युक्त्वानुवरं यातः कुमारः कृपया ततः॥ ३१ ॥ महाबलकुमारस्य पश्यंती मार्गमेकिका । शून्ये रंभावने तत्र तस्थो मलयसुंदरी ॥ ३२ ॥ अतिकांता
1
॥१०७