________________
मलय
चरित्रं
॥१०६॥
उवाचैको महाभूतो यूयं शृणुत मे वचः । पृथ्वीस्थानपुरेशस्य नंदनोऽभून्महाबलः ।। ११ ॥ जनन्यास्तस्य केनापि हारोऽदृश्यात्मना हृतः । ततस्तेन कुमारेण पुरो मातुरितीरितं ॥ १२ ॥ चे. पंचरात्रमध्ये न हारं हस्तेऽर्पयामि ते । तदाहं प्रविशामग्नौ मातालाकुले खल्लु ॥ १३ ॥ मात्रापि भणितं वत्स ! तं हारं न लभे यदि । दिनपंचकमध्येऽहं निश्चयेन म्रिये तदा ॥ १४ ॥ नास्ति तस्य | कुमारस्य शुद्धिारानुयायिनो । दिवसः पंचमः सूर्योदये किल भविष्यति ॥ १५ ॥ तस्यामलभमा| नायां कुमारं हारमप्यमुं। मृत्यवे तिष्टमानायां समायातोऽस्म्यहं ततः ॥ १६ ॥ किं विषेण जले. नाथ शस्त्रघातेन वाग्मिना । पातेनोबंधनेनापि न जाने सा मरिष्यति ॥ १७ ॥ बहुलोकयुतस्तां तु नृपोऽप्यनुमरिष्यति । शृण्वन्निति कुमारोऽपि कोटरस्थो व्यचिंतयत् ॥ १८ ॥
नूनमेते सुराः केऽपि प्रजल्पंति परस्परं । ततः सत्यमिदं वाक्यं नैते वितथवादिनः ।। १९ ॥ अहो विगतसत्योऽहं वत्तें जीवन्निहैव हि । मम तत्र कुलं सर्व दुःखाते क्षीयते पुनः ॥ २० ॥ पुन| जगाद भूतोऽथ गम्यते तत्र सांप्रतं । कौतुकं वीक्ष्यते कामं रक्तायं खाद्यते तथा ॥ २१ ॥ मुक्तः
-
॥१०६॥