________________
मलय
॥१०५॥
101112848888888६५
॥ अथ तृतीयः प्रस्तावः प्रारभ्यते ॥
अथ कांता कुमारेण गतेनोचे पुराद्वहिः । श्मशाने निशि नो युक्तं स्त्रीणां संवरणं प्रिये ! ||१|| तत्ते करोमि पुंरूपमित्युक्त्वाम्ररसेन सः । घृष्ट्वा तां गुटिकां चक्रे तस्या भाले विशेषकं ॥ २ ॥ नृरूपा साऽभवत्तेन ततस्तौ पुरुषावुभो । गत्वा देवीगृहं तस्मात्तं चीरं चक्रतुर्बहिः ॥ ३ ॥ ऊचतुश्चेति रे कल्ये ! चौरास्त्वां वीक्ष्य ते गताः । त्वं तु क्षेमेण गच्छाद्य यत्र ते मनसो रुचिः ॥ ४ ॥ प्राणलाभः खलाभश्च प्रसादाद्युवयोर्मम । इति जल्पन्नमंश्चापि शिरसा तस्करोऽगमत् ॥ ५ ॥ तौ द्वावपि समुत्तीर्य पुरीगमनहेतवे । देवीभवनद्वारेण वटस्याधो गतौ यदा ॥ ६ ॥ तदाभ्यां शिखरेऽश्रावि भृतालापाः परस्परं । अथो प्रोक्तं कुमारेण तिष्ठ तिष्ठ प्रिये! क्षणं ॥ ७ ॥ दत्तकर्णा सकर्णे त्वं शृणु भूता वदंति किं । उपरिष्टाद्वटाग्रस्य स्थिता एते परस्परं ॥ ८ ॥ माऽमो हार्षुः पुनर्हारं ध्यात्वेति नृपसूनुना । गृहीत्वा तं प्रियाकंठात्क्षिप्तः कटिपटांतरे ॥ ९ ॥ छन्नौ द्वावपि भृत्वा तौ प्रविष्टौ वट कोटरे । अवहितचित्तौ सर्वं श्रोतुं लग्नौ महामती ॥ १० ॥
890940
चरित्रं
॥१०५॥६