________________
मलय
॥१०४॥
**80%••4%89%••*00%2
॥ २४ ॥ तत्किं करोमि यामि क जल्पन्निति नरेश्वरः । यावत्तस्थौ विमूढात्मा मग्नश्चित भरांबुधौ ॥ २५ ॥ तावद्वेगवती स्माह देवाधीश्वर निश्चितं । महाबलः स एवैष सैषा मलयसुंदरी ॥ २६ ॥ किंतु रात्रौ बहियांतौ पातयित्वा छले वलात् । हतौ केनापि देवेमाविति संभाव्यते ध्रुवं ॥ २७ ॥
ततो देशांतरारण्यनदीपर्वतभूमिषु । विलोकयत सर्वत्र संप्रेष्य निपुणान्नरान् ॥ २८ ॥ पृथ्वीस्थानपुरे पूर्वं शुद्धिं कारयताचिरात् । तत्रोपायेन केनापि तौ भवेतां गतौ यदि ॥ २९ ॥ इमं व्यतिकरं सर्वं सूरपालमहीपतेः । ज्ञापयताशु यत्सोऽपि समदुःखो विलोक्यते ॥ ३० ॥ साधुः साधुस्तवैषा धीः साधूपायस्त्वयोदितः । इति प्रशंसता तेन सर्वं तत्कथितं कृतं ॥ ३१ ॥ दत्वाथ शिक्षां मलयादिकेतुनामा कुमारः प्रहितो नृपेण । श्रीसूरपालस्य नरेश्वरस्य वृत्तांतमाख्यातुम मुं समग्रं ॥ ३२ ॥
॥ इत्यागमिकश्रीजयतिलकसूरिविरचिते ज्ञानरत्नोपाख्याने मलयसुंदरोचरित्रे तत्पाणिग्रहणप्रकाशनो नाम द्वितीयः प्रस्तावः समाप्तः ॥
चरित्रं
॥ १०४॥