________________
मलय
॥११६
| तत्कोप्यस्याः पृष्टतो ननु । सत्कृत्यैतां तदा तस्मै दास्यामो दिव्यकामिनीं ॥ २२ ॥ देवि त्वं सह हारेण लक्ष्मीपुंजेन सांप्रतं । सुखेनैतां धर स्वीयपा श्वेचाटुललोचनां ॥ २३ ॥ हारोऽपि चटितो देवि! मध्ये पंचाह्न एष ते । सुखी दुःख्यथवा क्वापि सुतोऽभूत्सत्यसंगरः ॥ २४ ॥ मोक्तव्योऽध्यवसायस्त न्मरणस्य त्वयाधुना | हारााप्रातौ कुमरणमंगीकृतमभूद्यतः ॥ २५॥ ..
देव्युवाच महाराज किमनेन करोम्यहं । हारेण जीवितं धत्तुं न शक्नोमि विनात्मजं ॥ २६ ॥ हा मया मूढया ताहा पुत्ररत्ने महापदि । अस्य हारस्य कार्येण पातितं दुर्लभं पुनः ॥ २७ ॥ रत्न पाषाणकार्येण सुधा पानीयहेतवे । कल्पवृक्षश्च निंबार्थ देव निर्गमितो मया ॥ २८ ॥ जीवित्वा किं। करिष्यामि तन्निर्भाग्यशिरोमणिः । देव प्रेषय मां येन भृगुपातं तनोम्यहं ॥ २९ ॥ राजा जगाद देवि! त्वं स्थापितासि पुरा मया । आप्रभातं न वक्तव्यमत्राथें किमपि त्वया ॥ ३० ॥ तावद्धारोऽपि लब्धोऽयमतर्कित इहाधुना। समेष्यति कुमारोऽपि पुण्यरेवं कुतोऽपि नः ॥ ३१॥ संधीयेति प्रियां | राजा ययौ निजनिकेतनं । स्वं स्वं स्थानं समस्तोऽपि जनो विमितमानसः ॥ ३२ ॥ देव्या समं