________________
मलय
॥१००॥
****6800*90099280
तेन भाले मे स्वामिना मर्हितं ततः । जातं मलयसुंदर्या रूपं स्वाभाविकं च मे ॥ ८१ ॥
एतस्यानुज्ञया मातर्वपुर्लिप्त्वा विलेपनैः । परिधाय दुकूले ते कोटराप्ते च कुंडले ॥ ८२ ॥ मनोहारं तथा हारं लक्ष्मोपुंजं च हृयहं । बिभ्राणा वरमालां च करे काष्टदले स्थिता ॥ ८२ ॥ युग्मं ॥ भवत्या स्वस्थया स्थेयमित्थमित्थं भविष्यति । एवमेवं च कर्त्तव्यं सर्वं सुंदरि ! तत्र तु ॥ ८४ ॥ वादयिष्याम्यहं तत्र वीणां किंतु स्वयंवरे । यदा शृणोषि वीणायाः स्वरं तं त्वं विचक्षणे ॥ ८५ ॥ तदेमाः कीलिका नष्टाः कर्षणीयास्त्वया किल । इत्युक्त्वा स्वामिनाऽयोजि द्वितीयं दारुणो दलं ॥ ८६ ॥ त्रिभिर्विशेषकं ॥ दत्ताश्च कीलिका नाथ! नाहं जानाम्यतः परं । ततः प्रसीद जल्प त्वं किं किं देव कृतं त्वया ॥ ८७ ॥ महाबलो बभाणाथ मया स्तंभोऽनुचित्रितः । तथाशु वर्णकैश्चित्रैर्न किंचिज्ञायते यथा ॥ ८८ ॥ शेषं तद्वर्णकाद्यं तु क्षिप्तं गोलानदीजले । इतश्च ते समायाता महाचोराः सलोप्लकाः ॥ ८९ ॥ पश्यंतस्तं समंजूषं चौरं यांत इतस्ततः । आभाषिता मया चौरास्तत्संकेतेन ते तदा ॥ ९० ॥ विश्वस्तैस्तैरहं पृष्टः समंजूषं मलिम्लुचं । तांबूलदानपूर्वं ते पुनश्चौरा
પોટલાસીત
ko¶******+of
चरित्रं
॥१८०॥