________________
SSISEKASS%A4%ARAKAR
॥ अथ सप्तमो भवः॥ 5. अथ मो नरेन्द्र ! एतावद्विडम्बनाकरणेनाऽपि तेषां कर्मणां मनोरथा म सम्पूर्णाः। ततः पुनस्तै
यद् आवयोर्विगोपनं कृतं तद् निशम्यताम्-आवाभ्यां किल एकः पिष्टकुर्कुटः पुरा निहत आसीत् , तत आवामपि हन्तव्यकुर्कुटत्वं प्राप्ती, मयूर-धानादिभवास्तु वृद्धिपदे गताः! । आवयोः कुर्कुटमववृत्तान्तस्तु एवम्-तस्या एव मम राजधान्याः समीपे एकश्चण्डालपाटकोऽस्ति । स च ईदृशःरुण्ड-तुण्डसमाकीर्णः पूतिगन्धभृतोऽशुचिः। विपच्यमानगोमांसो धूमधूसरिताऽम्बरः॥१॥ चर्मनिर्माणसंलप्रमाताजनपूरितः । वधार्थमतिविश्वस्तपोष्यमाणविहङ्गमः ॥२॥ अर्कदुग्धग्रहव्यग्रङ्गहस्तशिशुनजः । विलम्बितच्छगलकच्छेदनिःशूकशौनिकः ॥३॥ असेव्यः सर्वसाधूनामहितः सर्वदेहिनाम् । धूमप्रभाऽभिधानायाः प्रतिच्छन्द इवावनौ ॥४॥ यस्मिन् मारितसारङ्गरुधिराऽरुणिताङ्गणे । शार्दूल्य इव चेष्टन्ते रण्डाश्चण्डालयोषितः॥५॥ इति । तस्मिन् एवंविधे दुष्टे चण्डे चण्डालपाटके द्वावपि आवाम् एकस्याः कुर्कुट्याः कुक्षौ गर्मत्वेनोत्पन्नौ । सा च पक्षिणी शरीरपुष्ट्यर्थ कीटकोटिकुटुम्बानि भक्षयन्ती प्राणानिव आवां यत्नेन वहति स्म। अथ तदर्भस्थयोरावयोर्यावत् परिपूर्णः कालो न समायाति तावत् कश्चित् तरुणो मार्जारः कुतविद्