________________
श्री यशोध. ॥ २५ ॥
| कम्र्मेन्धनदहने बह्नितुल्यस्य तस्य धर्म्मध्यानस्यैवाऽभावात् शत्रुभूतैः कर्म्मभिर्यथा यथा आदिष्टं तथा तथा मया दृष्टम् । हे राजन् ! त्वं पश्य, तैः कर्मभिर्लाघवं प्रापितस्य मम अवन्तिस्वामिनः कपर्दिका मूल्यम् आसीत् । ततः कर्म्मकुञ्जरैस्तूलमिवाकाशे विक्षिप्तोऽहं निस्सारः सन् पक्षिरूपेण चिरं परिभ्रान्तः, कुमरणेन मृतश्च । ततः पुनर्दीनहीनस्य बुभुक्षोर्वनवासिनो मम मुखे तैरेव कर्म्मभिर्मारणाय कालकूटस्य कवलः समप्पितः, सुकोमलं कलेवरं च श्वापदेभ्यः प्राभृतीचक्रे । तदनन्तरं च तैरेव कर्म्मभिः अपुनर्दर्शनेच्छयाऽहं जम्बालजालभृते महाहदे मज्जितः, तत्रापि तत्प्रेरितैर्धीवरैः सद्यः पाशैर्निबध्य नृपाय दत्त्वा नरकतुल्यं महादुःखं प्रापितः । ततः पुनर्नटाचार्यैरिव तैः कर्मभिः पुरस्ताद् अपरं पुच्छमिव मुखे कूर्च विधाय मम पौरुषं विस्तारितम् ! । किं बहूक्त्या १, एभिर्दुष्टैर्मदीय पुरुषत्व विडम्बनाय यद् अवाच्यम् अश्रोतव्यं कार्य कृतं तत् केषामपि मा स्म भूत् । किञ्च, अन्ये लोकाः परस्मै शत्रवे कुपिताः सन्तो यद् अवाव्यं वचो वदन्ति तद् एभिर्निर्लज्जेः क्रुद्धैरहं सत्यमेव कारितः । तथा वैरिणामपि गुणग्राही सन् सत्यमेवाऽहं कृतज्ञोऽस्मि । तथाहि तेषां कर्मणां प्रसादेन मया खायम्भवं पदं लब्धम् ! । पुनस्तत्प्रसादेनैव मया पित्रा वारं वारं समर्थेन भूत्वा खपुत्रादेरुदरपूरणमकारि ! । तथा तेषां प्रसादेन मया पुनः पुनर्विविधानि अपूर्वाणि दुःखानि लब्धानि । हे राजन् ! इत्थम् एकपिष्टमयकुर्कुटघातसंजातपातकेन एवंविधेषु विषमेषु मयूरादिभवान्तरेषु अहम् आवर्चितोऽस्मि । इति श्रीयशोधरचरित्रे नृप-जनन्योः पञ्चम-पष्ठौ भवौ ॥५-६ ॥
चरित्रम्. भवौ ५-६
॥ २५ ॥