SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ चरित्रम्. भवौ ५-६ बीपशोध. Wi दशापि दिशो निरुध्य पुरतः प्रसरति । प्रतिरोमपविवरेभ्यो निरन्तरं प्रचुरतरा पतिः सवति । पुनरस्या बत पुरा वीणा-कोकिलाविजित्वरं सुललितं वचनमभूत् तदेवाऽधुना शृण्वतां जनानां परिहासहेतर्मवति। ॥२१॥ अहह ! कर्मणां परिणतिरतीव विषमा !, यतो या इयं स्त्री पुरा ईषदपि दृष्टा सती महतामपि हृदय हरति स्म, सा एव एषाऽधुना स्मृतापि विषयिणामपि चेतसि शूकामुत्पादयति । याऽस्या मुख-नयन-नितम्बादेः प्राक् शोभाऽभूत् सा लेशतोऽपि न दृश्यते । इदमीशमत्युग्रम् अस्याः कष्टजीवितं धिगस्तु'। इति विचिन्तयन् निष्ठीवमानोऽहं मुखं वक्रीकृत्य स्थितः। अथाऽस्मिन्नवसरे राजा महिषाऽऽमिषादिभोज्यं भानः सूपकारमिदम् अब्रवीत्-'अरे ! एतत् तु केवलं न रोचते, किञ्चिद् विजातीयं मांसं शीघ्रमानय'। ततः स चिन्तयामास-'अयं देवश्चण्डप्रतिज्ञो वर्चते, भक्ष्यं तु ताशं किमपि प्रत्यासन्नं नास्ति !, अतोऽलं विलम्बेन, क्षुधाऽन्धस्य राज्ञो भोजनावसरम् अनेन अजेनैव साधयामि । एवं विचिन्त्य स पापी सूपकारो मे दक्षिणं पार्थ चिच्छेद, ज्वलद्भिरङ्गारः क्षणाद् भटित्रं चाऽकरोत् । ततस्तं मांसपुरलं सद्यः संस्कृत्य भुञानस्य राज्ञो दर्शयामास । स नृपोऽपि तत् किञ्चिद् नयनावल्यै दापयामास, किञ्चिद् अग्रासनस्थेभ्यः, किञ्चित्पुनः खयं बुभुजे । अहं तु स्रवदूधिरधाराभिराीभूतं दुर्द्धरं शरीरं धारयन् सूपकारेण पुनः प्रयोजनोत्पचौ वधाऽर्थम् अवशेषितो निरहड्कारो निर्विनोदो निरुद्यमो यथाऽवस्थितसंस्थानो यथोपागतमोजनो मीलितचक्षुः प्रहारविवारोद्भवं खसंवेयं महादुःखमनुभवन् तत्रैव भूतले पतितस्तिष्ठामि । ॥२२॥
SR No.034174
Book TitleGadyabaddha Yashodhar Charitram
Original Sutra AuthorN/A
AuthorKshamakalyan
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy