________________
| इत्येवं तस्या नयनावल्याश्चेदीनां व्याकुलः शब्दोऽभवत् तदा भिन्नार्थं तद्वचनं श्रुत्वा तत्र स्थितेन | महाबलिना मातृश्वानेन खामिभक्त्या सद्य उत्थाय अहं कण्ठकन्दले गृहीतः
यतः - "स्वामिभक्ता च शूरा च दीप्तकार्येषु सोद्यमा । प्रकृत्या सारमेयानां, जातिः पातकिनी मता” ॥ १ ॥ ततो हक्कारवपरैर्जनैस्त्याज्यमानोऽपि अहं तेन शुना यदा न त्यक्तस्तदा क्रुद्धत्वाद् अविमृशता राज्ञा मम मोचनार्थ काञ्चनमयेनाऽक्षपट्टेन स वा हतः । ततस्तेन मुक्तोऽहं मुखेन रुधिरं वमन् निश्चेष्टोऽभूवम् । स श्वानोऽपि च मर्मप्रहाराद् विकलाङ्गोपाङ्गो विभ्रान्तनयनश्च सन् भुवि पतितः । एवं तत्र भवान्तरे तौ द्वावपि मातृ-सुतौ अन्त्यावस्थां गतौ दृष्ट्वा गुणधरनृपः प्रोवाच - ' हा मनोवल्लभमयूर ! हा प्राणप्रियक्कुर्कुर ! ममायं युवयोर्मृत्युः पित्रोरिव सुदुस्सहः समजनि । अपि च, हा मयूर ! अद्य त्वां विना मृदङ्गानां ध्वनिर्मेघस्य गर्जितमिव मम निर्विनोदमिवाऽऽभाति । तथा हा श्वान ! शूकराकर्षणमन्त्रे इव त्वयि परलोकं गते सति मम मृगयादीनां दशा मूलतोऽपि विनष्टा । पुनर्भो मयूर कुर्कुरौ ! माम् एकाकिनं परित्यज्य अकारणबान्धवौ भवन्तौ यास्यतः, परम् अनृणीभूतयोर्भवतोः स्वस्त्यस्तु । भो भोः पुरोहिता- ऽमात्य-सेवकाः ! शीघ्रमेव चन्दना - Sगरु- कर्पूरैः पित्रोरिव अनयोरग्निसंस्कारः क्रियताम् । पुनर्यथा पूर्व नरेन्द्रस्य जनन्याश्च | निमित्तं दानं दत्तं तथा एतयोरर्थेऽपि दुर्गतिनाशनं दानं दीयताम्' । अथैवं तद्वचनं श्रुत्वा कण्ठगतप्राणे
१ शुनाम् ।