________________
श्रीयशोध. दत्त्वा विससर्ज । आवयोश्च कण्ठकादीनि भूषणानि कारयित्वा क्षणमपि आवां दृक्पथाद् बहिर्न चकार ।
चरित्रम् तथा तस्य जननी शुनः शुश्रूषार्थम् अकाण्डमृत्युनामानं श्वानपालकं प्रति शिक्षां ददौ, मां तु शकुनपा- भवः२ ॥१६॥
लकं प्रति पालनाय समार्पयत् । तथा तयोामवासादिकं समधिकं चकार। एवम् आवामुभी जननी-13 पुत्रौ तत्र भवान्तरे पाल्यमानौ क्रमेण पुनः खगृहमायातौ । ततः कियति काले गते सति एकदाऽहं कौतुकाद् विविधगतिविशेषैहमध्यमवगाहमानः पक्षयुग्मं धुनानो धवलगृहस्य रत्नमयपक्षिनिवेशनस्थाने आरूढः। तत्र चान्तःपुरीणां मञ्जीरादिरणितगर्भ सजलजलदधीरं नाट्यशालासमुत्थं मृदङ्गध्वनिमाकर्ण्य प्रमोदाद् अहमपि नृत्यमकार्षम् । ततो मया इतस्ततो विचरता गवाक्षविवरान्तरे दृष्टिं प्रक्षिपता चित्रशालायां | वरेण इव तेन पापिना कुजेन भुज्यमाना प्रखेदकणव्याप्ताङ्गी विकीर्णालका सा नयनावली देवी दृष्टा । तदाऽहं तां विलोक्य चकितः सन् 'पुरा क्वापि इमौ दृष्टी'इति विचिन्तयन् जातिस्मरणं प्राप्तः । ततः सर्व खानुभूतं प्राग्भवखरूपं ज्ञात्वा कोपाऽऽक्रान्तः सन् सद्योऽभ्युत्थाय शरीराऽधिकप्रसरद्वीररसः आक्रोशेन कूजितं कुर्वाणश्चाहं चञ्चप्रहार-नखताडन-पक्षघातैस्तां वैरिणी हन्तुं लग्नः । तदा तयोर्भोगेऽन्तरायं || कुर्वन् अहं ताभ्यां संयोगवशाद् विगलितबन्धेराभरणैर्निर्दयं ताडितः। ततो विकलीभूतशरीरसंपुटःश्वासद संरुद्धकण्ठश्च सन् सद्यो गृहपर्यन्तभागादधो निपत्य सोपानमार्गेण लुण्ठंस्तां प्रथमां भुवं संप्राप्तो यत्र श्रीगु
णधरो नृपः खयमक्षैः क्रीडति । ततो मत्पृष्ठत एव 'हा!-धावत धावत, अयं वराको गृह्यतां गृह्यताम् ।
296SANSARATr%AR