________________
श्रीयशोध.
चरित्रम् भव: २
॥१५॥
एवाऽकस्माद् मृत्युः समाययो । मातृवचसा तादृग् हिंसारूपदुष्प्रतीकारकरणाद् स दुःखानो मम सद्यः फलितः। ततः सा चन्द्रमती माता मामेवं मृतं विलोक्य खयमतीव शोकव्याता बभूव । तदा निर्गमम् अलममानेन महाशोकेन तत्कालं तस्याहृदयं स्फुटितम् । चक्षुर्विलोकमानमेव स्थितम्, हस्तो वक्षःस्थले एव स्थितः, इत्यमूर्ध्वस्थितैव सा झटिति प्राणैरमुच्यत । इति श्रीमद्यशोधरचरित्रे नृपस्य जनन्याश्च प्रथमो भवः॥१॥
अप तयोढितीयभवस्वरूपमुच्यते
मो नरेश्वर । ततः सोऽहं यशोधरः सा च चन्द्रमती माता द्वावपि पिष्टमयपक्षिहननप्रभावात् तिर्यग्योनिको अभूताम् । तत्राहं पक्षिजाती समुत्पन्नः, सा च स्थलचरजातावुत्पन्ना। यतः-कर्तुः कारयितुर्वाऽपि कर्मविपाकस्तुल्य एव प्रायो भवेत् । ___उक्तं च-"खयं मज्जति दुःशीलो, मजयत्यपरानपि । तरणार्थ समारूढा, यथा लोहमयी तरी" ॥१॥
तत्राऽहं तु हिमाचलपर्वतनिकटवर्तिपुलिन्दगिरि'नामपर्वतस्य वने एकस्या मयूर्याः कुक्षौ गर्भत्वेन समुत्पन्नः । तत्र वर्जुलाऽण्डकसंस्थानोऽहं क्रमेण जठराग्निना पक्कः । परं कूजन्त्याः, आकाशं गच्छन्त्याः, पृथि
॥१५॥