________________
श्रीयशोध.
चरित्रम्
TARARIAGRAACARAM
पूरिता नयनावली नाम पट्टराज्ञी ममातीव वल्लभाऽऽसीत् । तस्या वियोगं क्षणमप्यहं न सोढं शक्रोमि।। अथ तया राड्या सह आरामविहार-पुष्पाऽवचयन-जलकेलि-दोलाधिरोहण-मद्यपानादिविविधविलासर्मम परमसुखमये कियति काले गते सति तत्कुक्षिसंभवो गुणधरो नाम पुत्रो बभूव । तदर्शनेन मम हृदयेऽतीवानन्दः समुत्पन्नः, 'अयं बालो मम सकलं कुलमुद्धरिष्यति' इति विमर्शात् । हे राजन् ! ततस्तत्राह विपुलपुत्र-कलत्र-मित्रादिव्यामोहमनः सन् कालं गमयामि, मुक्तिप्रदभगवद्वीतरागं कदाचिद् मनसाऽपि न चिन्तयामि । अथाऽन्यदा तया भार्यया सह कौतुकेनाऽहं गवाक्षे उपविष्टोऽभूवम् , सा च मम मस्तके केशान् कुसुमैर्जग्रन्थ । तदा एकम् अर्धपाण्डुरं मम केशं सा स्त्री गृहीत्वा मदने मुमोच । अहं च तं यमदूतमागतं विलोक्य हृदि चकितोऽभूवम् । ततोऽहं संसारसागराद् भीतो विषयजाला विरक्तश्च सन् एवं चिन्तयितुं लमः-"अहो! अयं जीवो विषयसुखेभ्यः कदापि पराङ्मुखो न भवति, अनादिपूर्वसंस्काराद् इन्धनेभ्यो वह्निरिव सर्वदा अतृप्त एवाऽवतिष्ठते । तथा अमी कामभोगादयः पुनः पुनः सेव्यमाना अपि जन्तोर्मोहाद् नवनवा भासन्ते, न पुनस्तत्त्वतोऽपूर्वाः सन्ति । ततस्तेषु पुनः पुनः प्रवृत्तिः चर्वितचर्वणन्यायेन अयुक्ता एव । यदुक्तम्
"जीवित्वा सुचिरं लोके किमपूर्व विलोक्यते । दिवसो रजनी सन्ध्या वर्षा ग्रीष्मस्त एव हि ॥१॥ द्वादशारमिदं चक्रं तदेव परिवर्तते । भ्रमन्ति यत्र भूतानि स्थावराणि चराणि च" ॥२॥
॥
९
॥