________________
श्रीयशोध. ॥ ८ ॥
इत्थं मुनीन्द्रेणोक्ते सति स भूपो भ्रमर इव मुनिचरणकमलयोर्निपत्य अत्यादरेणोवाच- 'हे प्रभो ! मयि | करुणार्द्र चित्तं विधाय शीघ्रम् एतद् वृत्तान्तं कथय, मा विलम्बं कुरु । मम बोधिबीजं देहि' । ततः स मुनीन्द्रस्तां सभाम् अतीवोत्कण्ठितां विलोक्य राजानं च सरलीभूतं दृष्ट्वा खयम् अवसरं जानन् राजादीनां बोधिबीजोत्पत्त्यर्थं सजलजलधरध्वनिवद् धीरमधुरखरेण कथयामास - 'हे राजन् ! तव चित्ते यदि आन्तरप्रीत्या श्रवणेच्छा विद्यते तर्हि प्रबोधार्थं अन्यवार्त्ताभिः सृतम् !, किन्तु यद् मया एव प्रतिभवं साक्षाद् अनुभूतं तदेव चरित्रं सावधानतया शृणु-तत्र तावद् मम पूर्वभवा अमी
॥ १ ॥
"मयूरो नकुंलो मीनो मेषी मेषैश्च कुर्कुटः । निहत्य कुर्कुटं पैष्टं पापाद् राजा बभूव सः" स इति मम जीवो यशोधरनामा इत्यर्थः । अस्या मद्भगिन्याः पूर्वभवास्तु अमी“वा सर्पः शिंशुमारश्च अजा महिषः कुर्कुटी । निहत्य कुर्कुटं पैष्टं पापाद् माता बभूव सा " ॥ २ ॥ सा इति यशोधरस्य माता चन्द्रमतीत्यर्थः । अथ विस्तरत एतद् वृत्तान्तम् इत्थम् -
॥ अथ प्रथमो भवः ॥
श्रीमति अवन्तिदेशे विविधधन-धान्य समृद्धिपूरिता उत्तुङ्गतोरण-स्तम्भशोभितश्रीजिनमन्दिरमण्डिता
चरित्रम्. भवः १
॥ ८॥